SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् १५५ मीमांसकाभिमतप्रामाण्यस्वतस्त्वस्य निरासःअत्राभिधीयते, प्रत्यक्षादिषु दृष्टार्थेषु प्रमाणेषु प्रामाण्यनिश्चयमन्तरेणैव व्यवहारसिद्धस्तत्र किं स्वतःप्रामाण्यमुत परत इति विचारेण न नः प्रयोजनम् अनिर्णय एव तत्र श्रेयान् , अदृष्टे तु विषये वैदिकेष्वगणितद्रविणवितर. णादिक्लेशसाध्येषु कर्मसु तत्प्रामाण्यावधारणमन्तरेण प्रेक्षावतां प्रवर्त्तनमनु. ५ चितमिति तस्य प्रामाण्यनिश्चयो ऽवश्यकर्त्तव्यः, तत्र परत एव वेदस्य प्रामा. एयमिति वक्ष्यामः। यदमियता विस्तरेण स्वतः प्रामाण्यमुपपादित तद् व्याख्येयम्, स्वतः प्रामाण्यमिति को ऽर्थः किं स्वत एव प्रमाणस्य प्रामाण्यं भवति उत स्वयमेव तत्प्रमाणमात्मनः प्रामाण्यं गृह्णातीति, न तावत्स्वयमेव प्रामाण्यग्रहणमुपप. १. नम् अप्रामाणिकत्वात्, तथा हि यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं तन्नीलं प्रति तावत्प्रत्यक्ष,प्रमाणं तावदिन्द्रियार्थसन्निकर्षोत्पन्नमिति जानीम एवैतकिमत्र विचार्यते, प्रामाण्यपरिच्छेदे तु किं तत्प्रमाणमिति चिन्त्यताम्, प्रत्यक्षमनुमानं वा प्रमाणान्तराणामनाशङ्कनीयत्वात्, न तावत्स्वप्रामाण्यपरिच्छेदे तत्प्रत्यक्ष प्रमाणं तद्विशानस्य वा प्रामाण्यं गृह्णीयात् तत्फलस्य वा तत्र ज्ञात १५ व्यापारात्मनो ज्ञानस्य भवन्मते नित्यपरोक्षत्वात्प्रत्यक्षतः परिच्छेदानुपपत्ती तत्प्रामाण्यस्यापि कथं प्रत्यक्षेण ग्रहणम् , फलस्याप्यर्थप्रकाशनाख्यस्य संवेदनात्मनो नेन्द्रियसंसर्गयोग्यता विद्यते येन तद्गतमपि यथार्थत्वलक्षणं प्रामाण्य. मिन्द्रियव्यापारलब्धजन्मना प्रत्यक्षेण परिच्छिद्यत, न च मानसमपि प्रत्यक्ष फलगतयथार्थताऽवसायसमर्थमिति कथनीयं तदानीमननुभूयमानत्वात् , न हि २० नीलसंवित्प्रसवसमनन्तरं यथार्थेयं नीलसंवित्तिरिति संवेदनान्तरमुत्पद्यमान- ... मनुभूयते, अनुभवे वा ततो द्वितीयात्प्रथमोत्पन्ननील ज्ञानयाथार्थ्यग्रहणान्न स्वतः प्रामाण्यनिश्चयः स्यात्, तस्मान्न प्रत्यक्षस्यैष विषयः, अनुमानेनापि कस्य प्रामाण्यं निश्चीयते ज्ञानस्य फलस्य वेति पूर्ववद्वाद्यम् , फलस्य तावत्तनिश्चये लिङ्गत्वमेव तावन्न कस्य चित्पश्यामः, ज्ञातृव्यापारात्मनो ज्ञानस्य तु स्वकार्य २५ फलं भवेदपि लिङ्ग फलस्य क्रियामात्रव्याप्तिग्रहणात्स्वरूपसत्तामात्रमनुमापयितु. वदः मुत्सहते न यथार्थत्वलक्षणं प्रामाण्यम् , तद्धि फलं निर्विशेषणं वा स्वकारणस्य ज्ञातृव्यापारस्य प्रामाण्यमनुमापयेद् यथार्थत्वविशिष्टं वा, आधे पक्षे यतः कुतश्चन फलात्तत्प्रामाण्यानुमाने नेदानी किं चिदप्रमाणं भवेत्, उत्तरोऽपि नास्ति पक्षः फलगतयाथार्थ्यपरिच्छेदोपायाभावादित्युक्तम् । ननु सो ऽनुभव एवात्रोपायः, वद्धि नीलसंवेदनतया फलं स्वत एव प्रकाशते नीलसंवेदनत्वमेव चास्य यथार्थत्वं नान्यत्, यद्येवं शुक्तिकायामपि रजत.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy