________________
न्यायमञ्जयाँम्
संवेदने समानो न्यायः, न हि रजतसंवेदनादन्या यथार्थत्वसंवित्तिरिति । .. ननु तत्र बाधकप्रत्ययोपनिपातेनायथार्थत्वमुपनीयते नूनं चास्य मिथ्यादशनेषु देशान्तरे वा शुक्तिकारजतादिज्ञाने कालान्तरे वा कूटकार्षापणादिप्रतीतो पुरुषान्तरे वा जाततैमिरिके द्विचन्द्रप्रतीतो अवस्थान्तरे पीतशङ्खादिप्रतिभासे भवति बाधकप्रत्ययः, तदसत्त्वे न तच्छङ्का युक्तिमतीत्युक्तमेव, सत्यमुक्तपयुक्तं तु एवं हि वदता बाधकाभावज्ञानाधीनं प्रामाण्यमभिहितं भवति तञ्च तात्का. लिकं कालान्तरभावि वेति कल्प्यमानं नोपपद्यते इति दर्शितम् , तस्मादुरप. द्यमानमेव प्रमाणमात्मनः प्रामाण्यं निश्चिनोतीति न युक्तमेतत् , यदि तु प्रस. वसमये एव ज्ञानस्य प्रामाण्यं निश्चिनुयाम तहिं ततः प्रवर्तमाना न क चिदपि विप्रलभ्येमहि, विप्रलभ्यामहे तु तेन मन्यामहे न निश्चितं तत्प्रामाण्यं संशयादेव व्यवहराम इति ।
ननु संशयो ऽपि तदा नानुभूयते एव किमिदं रजतमिति अपि तु रजत मित्येव प्रतीतिः न हि संशयानाः प्रवर्तन्ते लौकिकाः किं तु निश्चिन्वन्त एव
विषयमिति किमननुभूयमान एवारोप्यते संशयः, एकतरग्राह्यप्ययं प्रत्ययः ९५ तन्निश्चयोपायविरहात्संशयकोटिपतित एव बलाद्भवति यथा ऽस्ति कूये जल
मिति भिक्षवो मन्यन्ते, एवं रजतमिदमित्येकपक्षग्राह्यपि तदानी प्रतिभास: वस्तुवृत्तेन संशय एव, यदि हि प्रमाणतया ऽसौ गृह्येत कथं क चिद्विसंवदेत, अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवत्तयेत् ।
उभाभ्यामपि रूपाभ्यामथ तस्यानुपग्रहः ।
सो ऽयं संशय एव स्यादिति किं नः प्रकुप्यसि ।। यत्त नानुभूयते संशय इति, सत्यम् अननुभूयमानो ऽपि न्यायादभ्यस्त विषये ऽविनाभावस्मरणात्स परिकल्प्यते निश्चयनिमित्तस्य तदानीमविद्यमानत्वात् , संशयजननहेतोश्च सामग्ऱ्याः सन्निहितत्वात् , तथा हि, यथार्थेतरार्थसाधारणो धर्मो बोधरूपत्वमूर्ध्वत्वादिवत्तदा प्रकाशते एव, न च प्रामाण्याविनाभावी विशेषः कश्चन तदानीमवभाति तदग्रहणे च समानधर्माधिगमप्रबोध्यमानवासनाधीना तत्सहचरितपर्यायानुभूतविशेषस्मृतिरपि संभवत्येवेतीयं सा संशयजननी सामग्री सन्निहितैवेति कथं तज्जन्यः संशयो न स्यात् ।
ननु प्रमाणभूते प्रत्यये जायमान एव तद्गतो विशेषः परिस्फुरतीति कथ विशेषाग्रहणमुच्यते, भो महात्मन् कथ्यतां स विशेषो न हि तं वयमनुपदिष्टं कशमतयो जानीमः, यदि तावत् स्पष्टताविशेषः शुक्तिकायामपि रजतावभासः स्पष्ट एव, न हि तत्रानध्यवसायकालुष्यं किं चिदस्ति, अथ निष्कम्पता शुक्तिकायामपि रजतावभासो निष्कम्प एव न ह्यसौ जायमान एवाङ्गुल्यमादिवाक्यकरण