________________
प्रमाण प्रकरणम्
बोधवत्कम्पमानो जायते, अथ निर्विचिकित्सता शुक्तिकायामपि रजतावभासो निर्विचिकित्स एव किं स्विदिति कोटिद्वयानवमर्शात्, अथ यस्मिन् सति बाधा
दृश्यते सोऽस्य विशेष इति, नन्वेतदेव पृच्छामि कस्मिन् सति बाधा न दृश्यते इति सर्वावस्थस्य बाधदर्शनात्, न चासौ चिरमपि चिन्तयित्वा विशेषयितुं शक्यः, अथ स्वविषयाव्यभिचारित्वमेव विशेषः स तदानीं नावभासते इत्युक्तम् ५ अपि च यदि तथाविधोऽपि विशेषः समस्ति तर्हि यत्र ज्ञाने ऽसौ न दृश्यते ततः किमिति प्रवर्त्तते, तद्विशेषदर्शी वा प्रवर्त्तमानः कथं विप्रलभ्येतेत्युक्तम्, यदयं स्थाणुर्न पुरुषः ।
तेनैव व्यवहारस्य सिद्धत्वात्सर्वदेहिनाम् ।
अतश्च संशयादेव व्यवहारं वितन्वताम् ।। १० लौकिकानां प्रयोक्तव्या नाभिशापपरम्पराः ।
१५७
न च सर्वथा संशयसमर्थने ऽस्माकमभिनिवेशः, प्रामाण्यं तु ज्ञानोत्पत्तिकाले ग्रहीतुमशक्यमिति नः पक्षः, प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संशयशब्देनेह व्यपदेक्ष्यामः, प्रामाण्याग्रहणं च प्रदर्शितम्, प्रत्यक्षेणानुमानेन वा सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात् तस्मात्स्वयं प्रामाण्यं गृह्यते ९५ इत्येष दुर्घटः पक्षः ।
"
प्रामाण्योत्पत्तौ स्वतस्त्वनिरासः -
"
अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते सोऽप्ययुक्तः, कार्याणां कारणाधीनजन्मत्वात्प्रामाण्यस्य च कार्यत्वात् अस्ति च प्रामाण्यं वस्तु च तद् न च नित्यमिति कार्यमेव तत् कार्य च कार्यत्वादेव न २० स्वतो भवितुमर्हति इति, अथोत्पत्तौ स्वकार कातिरिक्तगुणानपेचित्वमेव प्रामायस्य स्वतो भवनमुच्यते न पुनरकार्यत्वमेवेति तदप्यसम्यक्, सम्यग्रूपस्य कार्यस्य गुणवत्कारक व्यतिरेकेणानिष्पत्तेः, द्विविधं कार्यं भवति सम्यगसम्यग्वा तत्र गुणवता कारणेन सम्यक् कार्यमुत्पद्यते दोषवता त्वसम्यगिति । निर्दोषं निर्गुणं वापि न समस्त्येव कारणम् । १५ अत एव तृतीयस्य न कार्यस्यास्ति सम्भवः ॥
सम्यग्ज्ञानात्पादकं कारकधर्मि स्वरूपातिरिक्तखगतधर्मसापेक्षं कार्यनिर्वर्त्त कमिति साध्यो धर्मः कारकत्वात् मिथ्याज्ञानात्पादककारकवत्, सम्यग्ज्ञानं वा धर्मस्वरूपातिरिक्तधर्मसम्बन्धवत्कार कनिष्पाद्यमिति साध्यो धर्मः कार्यत्वान्मिध्याज्ञानवत्, आयुर्वेदाश्चेन्द्रियगुणान् प्रतिपद्यामहे, यदमी वैद्याः स्वस्थवृत्तेरौष ३० धोपयोगमुपदिशन्ति तद्गुणेोपयोगायैव न दोषशान्तये, दृश्यते च तदुपदिष्टौषधोपयोगादिन्द्रियातिशयः, तद्विषय एव च लेोके नैर्मल्यव्यपदेशो न दोषाभाव