________________
१५८
न्यायमञ्जर्याम् मात्रप्रतिष्ठ इत्यलं विमर्दैन, तस्मादुत्पत्तौ गुणानपेक्षत्वात्स्वतः प्रामाण्यमिति यदुक्तं तदयुक्तम् । .
यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते तदपि व्याख्येयं किं प्रमाणं म्वकार्यकरणे निरपेक्षोसामग्री वा तदेकदेशो वा तज्जन्यं वा ज्ञानमिति, तत्र सामग्याः सत्यं स्वकार्यजन्मनि नैरपेक्ष्यमस्ति न तु तावता स्वतः प्रामाण्यं तत्परिच्छेदस्य परायत्तत्वात् , सामग्यन्तर्गतकारकस्य स्वकार्ये परापेक्षत्वमपरिहार्यम् , एकस्मात्कारकात्कार्यनिवृत्त्यभावात, ज्ञानं फलमेव न प्रमाणमित्युक्तम् , न च फलात्मनस्तस्य स्वकायें किं चिदस्ति यत्र सापेक्षत्वमनपे. क्षत्वं वा ऽस्य चिन्त्येत, पुरुषप्रवृत्त्यादौ तु तदिच्छाद्यपेक्षत्वं विद्यते एवेति यत्किं चिदेतत् ।
यदपि प्रामाण्यनिश्चये नैरपेक्ष्यमभ्यधायि तदपि न साम्पतम् , प्रामा ज्यनिश्चयस्य हि द्वयी गतिर्नास्तित्वं कारणापेक्षिता वा न पुनरस्ति च प्रामाण्य. निश्चयः कारणनपेक्षश्चेति शक्यते वक्तम् , तत्र प्रथमप्रवर्तकप्रतिभासप्रस वसमये तावन्नास्त्येव प्रामाण्यनिश्चय इत्युक्तम्, न हि नीलग्राहिणा प्रमाणेन लीनस्वरूपमिव स्वप्रामाण्यमपि तदानीं निश्चेतुं शक्यते इति, कालान्तरे तत्प्रामाण्यनिश्चयः सत्यमस्ति न तु तत्र नैरपेक्ष्यं प्रवृत्तिसामर्थ्याधी. नत्वात्तनिश्चयस्य ।
ननु क्षणिकत्वात्कालान्तरे ज्ञानमेव नास्ति कस्य प्रामाण्यं निश्चिनुमः, शिशुचोद्यमेतद् अप्रामाण्यमपि बाधकप्रत्ययादिना कालान्तरे कस्य निश्चिनुमः क्षणिकत्वेन ज्ञानस्यातीतत्वात्, अतिक्रान्तस्यापि स्मर्यमाणस्य तदुत्पादस्य वा। वर्तमानस्य कारकचक्रस्येति चेत्प्रामाण्यनिश्चयेपि समानो ऽयं पन्थाः, ___यत्पुनः कालान्तरे तन्निश्चयकरणे दूषणमितरेतराश्रयत्वं वा मुण्डितशि. रोनक्षत्रान्वेषणवद्वैयर्थ्य वेति वणितं तत्रादृष्टे विषये प्रामाण्यनिश्चयपवि. कायाः प्रवृत्तरभ्युगमान्नेतरेतराश्रयं चक्रकं वा, दृष्टे विषये ह्यनिर्णीतप्रामाण्य एवार्थसंशयात्प्रवृत्तिरूपमनर्थसंशयाच निवृत्त्यात्मक व्यवहारमारभमाणो दृश्यते लोकः एतदेव युक्तमित्युक्तम् , न प्रामाण्यनिश्चयपुरःसरं प्रवर्तनमिति कुत इतरेतराश्रयम्, वैयर्थ्य तु दृष्टे विषये सत्यमिष्यते किं तु तत्र प्रवृत्तिसा. मध्यन प्रामाण्यं निश्चिन्वन्नातोक्तत्वस्य हेतोः प्रामाण्येन व्याप्तिमवगच्छतीति, ह्यष्टविषयोपयोगिवेदादिप्रमाणप्रामाण्यपरिच्छेदे पारम्पर्येणेपायत्वात्स्वविषये व्यथो ऽप्यसो तत्र सार्थकतामवलम्बते इत्यदोषः ।
किं पुनरिदं प्रवृत्तिसामर्थ्य नाम यतः प्रामाण्यनिश्चयमाचक्षते नैयायिकाः, उच्यते पूर्वप्रत्ययापेक्षात्तरा संवित्पवृत्तिसामर्थ्य विशेषदर्शनं वेति पूर्वा. चायैस्तत्स्वरूपमुक्तम् , तत्पुनातीव हृदयंगमम् इति भाष्यकृतैव 'समोहा प्रवृ.