________________
प्रमाणप्रकरणम्
त्तिरित्युच्यते सामर्थ्य पुनरस्याः फलेनाभिसम्बन्ध (१) इति वदता ऽर्थक्रियाख्यफलज्ञानमेव प्रवृत्तिसामर्थ्य मिति निर्णीतम् ।। ____यत्पुनरर्थक्रियाज्ञानस्यापि पूर्वस्मात्को विशेषः तस्यापि चान्यतः प्रामाण्यनिश्चयापेक्षायामनवस्थेत्युक्तं तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरोधित्वादसंबद्धाभिधानम् , अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य, प्रवर्तकं ५ । न सर्वज्ञानं प्रवृत्तिसिद्धये परीक्षणीयप्रामाण्यं वर्त्तते, फलज्ञाने तु सिद्धप्रयो- नर जनत्वात् प्रामाण्यपरीक्षापेक्षव नास्तीति कुतोऽनवस्था, संशयाभावाद्वा तत्प्रामाण्यविचाराभावः, प्रवर्तकं हि प्रथममुदकज्ञानमविद्यमाने ऽपि नीरे मिहि. रमरीचिषु दृष्टमिति तत्र संशेरते जनाः, अर्थक्रियाज्ञानं तु सलिलमध्यवर्तिनां भवत्तदविनाभूतमेव भवतीति न तत्र संशयः, तदभावान्न तत्र प्रामाण्यविचा- ९० रो विचारस्य संशयपूर्वकत्वात् , विशेषदर्शनाद्वा फलज्ञाने प्रामाण्यनिश्चयः ।
कः पुनविशेष इति चेद् योऽयं शौचाचमनमज्जनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपयोलोचनप्रबन्धः न धयमियान्कायकलापो मिथ्याज्ञानात्प्रवृत्तस्य क चिदपि दृष्टः, स्वप्ने ऽप्यस्य प्रबन्धस्य दर्शनमस्तीति चेद् न, स्वप्नदशाविसहशविस्पष्टजाणवस्थाप्रत्ययस्य संवेद्यत्वात् , एषो ऽस्मि जागर्मि न स्वपिमीति स्वप्नविलक्षणमनिद्रायमाणः प्रत्यक्षमेव जाग्रत्समयं सकलो जनश्चेतयते, न च तस्मिन्नवसरे सलिल. मन्तरेणताः क्रियाः वर्तमाना दृश्यन्ते इति तद्विशेषदर्शनात् सुज्ञानमर्थक्रि. याज्ञानप्रामाण्यम्, कारणपरीक्षातो वा तस्मिन् प्रामाण्यं निश्चेष्यामः, यथोक्तं. भवद्भिरेव(२) प्रयत्नेनान्विच्छन्तोन चेद्दोषमवगच्छेम तत्प्रमाणाभावाददुष्टमिति २० मन्येमहि' इति तथाहि विषयस्य चलत्वसादृश्यादिदोषविरहः आलोकस्य मलीमसत्वादिकारणवैकल्यम् अन्तःकरणस्य निद्राद्यदूषितत्वम् आत्मनः क्षुत्प्रकोपाद्यनाकुलत्वमा ईक्षणयुगलस्य तिमिरपटलादिविकलत्वमित्यादि, स्वयं च कार्यद्वारे. ण परोपदेशेन च सर्वसुज्ञानम्, अतो निरवद्यकारणजन्यत्वात्प्रमाणमर्थक्रियाज्ञा. नमिति विद्मः,।
यद्येवं प्रथमे प्रवर्तके एव प्रत्यये कस्मात्कारणपरीक्षवेयं न क्रियते किमर्थ क्रियाज्ञाने, न आयुष्मन्नाद्ये ऽपि ज्ञाने कारणपरीक्षायां क्रियमाणायां कः प्रमादः, किमेवं सति स्वतः प्रामाण्यं सिद्धयति तव, मम वा परतः प्रामाण्यमपहीयते, किं तु लोकः प्रवर्तकज्ञानानन्तरं फलप्राप्ति प्रति यथा सोद्यमो दृश्यते न तथा तत्कारणपरीक्षां प्रति फलज्ञानमेवेत्थं परीक्ष्यते, आद्यस्य हि ज्ञानस्य फ. ३. लज्ञानादेव प्रामाण्यसिद्धिः, कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति।
(१) वात्स्यायनभाष्ये अ० १ पा० १ सू०१ । (२) शाबरभाष्ये म. १ पा० १ सू० ५।