________________
१५
न्यायमअर्याम् अथ संशयोत्पत्तिसामर्थ्यादेव यथार्थनिश्चयः फलज्ञानेन लप्स्यते संशयो हि नाम द्वैविध्यदर्शनाद् विना न भवत्येव, न हि स्थाणुपुरुषसाहचर्यमूवताख्यस्य धर्मस्य यो न जानाति स तं दृष्ट्रा स्थाणुर्वा स्यात्पुरुषो वेति संशेते एवमूर्ध्वत्वाद्वाधरूपत्वस्य व्यभिचारित्वाव्यभिचारित्वाभ्यां सह दर्शनमवश्यमाश्रयणीयम् अन्यथा तद्विषयसंशयानुत्पादाद्, अतः पूर्वमव्यभिचारित्वदर्शने सिद्धे यस्तदा तत्परिच्छेदोपायः स पश्चादपि भविष्यतीति सर्वथा सिंद्धयत्यव्यभिचारित्वनि. श्चयः, अनिश्चितप्रामाण्यादपि वा फलज्ञानात्प्रवर्तकस्य प्रामाण्यनिश्चयो युक्तः न तुस्वत उत्पत्तौ प्रमाणतदाभासयोर्विशेषग्रहणात् फलज्ञाने च तद्विशेषप्रतिभासात्। __ यत्त विशेषज्ञानं निश्चितप्रामाण्यमनिश्चितप्रामाण्यं वेति विकल्प्यानवस्था. पादनमप्रतिपत्तिप्रहतताकथनं वा तद्दष्टे विरुद्धत्वात्प्रलापमात्रमित्यलमलीको. क्तविकल्पकलापनिर्मथनोदितदुरामोदास्वादनेन, स्थितमेतदर्थक्रियाज्ञानात्प्रामा. ण्यनिश्चय इति, तदिदमुक्तम् , 'प्रमाणतो ऽर्थप्रतिपत्तो प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्' इति(१), तस्मादप्रामाण्यमपि परोक्षमित्यतो द्वयमपि परत इत्येष एव पक्षः श्रेयान् ।
यत्त कश्चित्प्राज्ञमानी वदति अभ्यस्ते विषये स्वतः प्रामाण्यमनभ्यस्ते तु परत इति सोयमभ्यस्ते विषये इति च ब्रवीति स्वतश्च प्रामाण्यं मन्यते इति स्वयमेवात्मानं वाच्यमानं न चेतयते, अभ्यासेो हि नाम पुनः पुनः प्रयोगः क्रियाभ्यावृत्तिः विषयस्य चाभ्यस्तता भूयो भूयः प्रवृत्तिः अतश्च स्वश. रीरग्रहे निजगृहकुड्यस्तम्भादिप्रतिभासे वा सहस्रकृत्वः प्रवृत्तिसंवादज्ञानजन्मना पामाण्यनिश्चय उक्तो भवति स्वतः अभ्यस्तत्वं चान्यथा न भवेदिति यत्किं चिदेतत्, तस्मात्परतः प्रामाण्यमिति सिद्धम्।
यत्पुनः कैश्चिच्चोद्यते प्रमाणानां न परीक्षणमुपपद्यते तद्धि प्रमाणः क्रियेता. प्रमाणर्वा प्रमाणैरपि परीक्षितैरपरीक्षितैर्वा, तत्र न नाम प्रमाणपरीक्षणं श. क्यक्रियं प्रमाणैरप्यपरीक्षितैः तत्करणे वरं व्यवहार एव तादृशैः क्रियतां किं प. रीक्षणेन, परीक्षितैस्तु तत्परीक्षाकरणमपर्यवसितमनवस्थाप्रसङ्गादित्यादि तद. प्युक्तेन न्यायेन परिहृतं भवति, दृष्टे विषये प्रमाणपरीक्षां विनैव व्यवहारात, अदृष्ट तु परीक्षाया अवश्यकर्त्तव्यत्वादुपपत्तेश्चेति ।
तस्माददृष्टपुरुषार्थपदोपदेशि
मानं मनीषिभिरवश्यपरीक्षणीयम् । '. 3. प्रामाण्यमस्य परतो निरणायि चेति
चेतःप्रमाथिभिरलं कुविकल्पजालैः॥
(१) वात्स्यायनभाष्यप्रथमवाक्यम् ।