________________
प्रमाणप्रकरणम्
१६१ परतः प्रामाण्यनिरासाय विपरीतख्यातिमाक्षिप्याख्यातिवादेन
__ प्रत्यवस्थानम्-- सुशिक्षितास्त्वाचक्षते युक्तं यदमी मीमांसकपाशाः काशकुसुमराशय व शरदि मरुद्भिरतिदूरात्समुत्सायन्ते दुष्टताकिकैः, ये हि किलाभ्युपयन्ति च विपरीतख्यातिवादमकृतास्त्राः प्रामाण्यं च स्वत इति च वदन्ति तेषां कुतः कोश- ५ लं विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसंदर्भसुमिचे सति तत्साधा. दनुत्पन्नबाधकेऽपि बोधे दुष्परिहरः संशयः, संशये च संवादाद्यन्वेषणमपि ध्रुव. मवतरतीति परत: प्रामाण्यमनिवार्यम्,
बाध्यज्ञानाभावस्थापनमुखेन विपरीतख्यातिखण्डनम् । यदा तु न बाध्यो नाम जगति कश्चिदपि बोधः तदा किंसाधात्संशेरतां ९० प्रमातारः, असंशयानाश्च किमिति परमपेक्षन्ताम् अनपेक्षमाणाः कथं परतः प्रामाण्यं प्रतिपद्यन्तामिति निश्चलं स्वत एव प्रामाण्यमवतिष्ठते,
कथं पुनर्बाध्यो नाम नास्ति बोधः शुक्तिकादौ रजतादिप्रत्ययाः प्राचुर्येण बाध्यमाना दृश्यन्ते, अनभिज्ञो भवान्न हि ते बाध्याः प्रत्ययाः, इदं हि निरूप्यतां क इवोत्तरशानेन पूर्वज्ञानस्य बाधः , बाधार्थमेव न विद्मः, यदि तावन्नाश १५ एव बाधः स न तेषामेव बुद्धर्बुद्धयन्तराद्विरोध इति सकलबोधसाधारणत्वात्, अथ सहानवस्थानं तदपि समानम् अबाधितानामपि ज्ञानानां सहावस्थानासंभवात् । ___ अथ संस्कारोच्छेदो बाधः सेोऽपि ताहगेव सम्यक्प्रत्ययोपजनितसंस्कारस्याप्युच्छेददर्शनात् , कश्चिद्भवदभिमतबाध्यबोधाहितोऽपि संस्कारः सत्यपि २० बाधकप्रत्यये नोच्छेदमुपगच्छति कालान्तरे तत्कारणकतद्विषयस्मरणदर्शनात् ।
अथ विषयस्यापहारो वाधः सोऽपि दुर्घटः, प्रतिभासत्वेन विषयस्यापहर्तुः' भातव्ये मशक्यत्वात् , न हि बाधकं ज्ञानमित्थमुत्तिष्ठति यत्प्रतिभातं तन्न प्रतिभातमिति ।
अथ तदभावग्रहो बाधः स तात्कालिकः कालान्तरभावी वा, कालान्तरभावितदभावग्रहणस्य बाधकत्वे प्रागवगतमुद्गरदलितघटाभावग्राहिणाऽपि २५ विज्ञानस्य तद्बाधकत्वप्रसङ्गः, तदैव तु तदभावग्रहणे प्रत्ययद्वयसमर्पितरूप. द्वितययोगादुभयात्मकमेव तदस्तु वस्तु किं कस्य बाध्यं बाधकं वा।।
अथ फलापहारो बाधः सो ऽपि न सम्भवति संविदः प्रमाणफलस्य उत्प. नत्वेनानपहरणीयत्वात् , न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः । अथ हानादिफलापहारो बाध: न तस्य प्रमाणफलत्वाभावात् ।
हानादिव्यवहारो हि पुरुषेच्छानिबन्धनः । न तेनापहृतेनापि प्रमाणं बाधितं भवेत् ।। २१ न्या