________________
१६२
न्यायमअर्याम्
तस्मान्न बाधो नाम कश्चित् , इतश्च नास्ति स हि समानविषययोवा ज्ञानयोरिष्यते भिन्नविषययोर्वा, न समानविषययोर्धारावाहिज्ञानेष्वदृष्टत्वात् , नापि भिन्नविषययोः स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भात् , यदि चोत्तरेण ज्ञानेन पू. वज्ञानेन गृहीतादर्थादर्थो ऽन्य इदानीं गृहीतः तत्पूर्वज्ञानं किमिति बाधितमुच्यते। __ अपि च पूर्वस्मिन्प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययो बाधितुं युक्तं न पूर्वो न चैवं दृश्यते, तस्मान्न बाध्यं नाम विज्ञानमस्ति तदभावान्न त. साधय॑निबन्धनः संशयः तदभावात्संवादाद्यनन्वेषणान्न परतः प्रामाण्यम् ।
कारणभावमुखेन विपरीतख्यातिखण्डनम्नन्वेवं बाधे ऽपि निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणे विपरीतप्रत्यया अबाधिता एवासताम आः कुमते नामी विपरीतप्रत्ययाः न हीहशानां विपर्ययाणामुत्पत्तौ किमपि कारणमुत्पश्यामः, न तावदिन्द्रियमेवंविध. बोधविधायि भवितुमर्हति सर्वदा तदुत्पादप्रसङ्गात् , नापि दोषकलुषितं दुष्टं कारणं स्वकार्यकरणे एव कुण्ठितशक्ति जातमिति तदेव मा जीजनत् , विपरीतकार्यकरणस्य किं वर्तते न हि दुष्टानि शालिबीजानि यवाङ्करकरणकौशलमवलम्बेरन् , तस्मात्कारणाभावादपि न विपरीतप्रत्ययास्ते। ___ तत्किं सम्यक्प्रत्यय एव शुक्तिकायां रजतप्रतिभासः, अयि मूढ नायमेकः प्रत्यय इदं रजतमिति किं तु द्वे एते ग्रहणस्मरणे इदमिति पुरो ऽवस्थितभास्वराकारधर्मिप्रतिभासः रजतमिति तु भास्वररूपदर्शनप्रबोध्यमानसंस्कारकारणकं तत्साहचर्यादवगतरजतस्मरणम् , अतश्चेदं स्मरणं यतः प्रागनवगतरजतस्य न जायते विदितरजतस्यापि रजन्यामन्यदा वा सादृश्यदर्शनाद्विना न भवतीति, स्मरणमपि भवदिदमात्मानं तथा न प्रकटयतीति प्रमुषितमुच्यते, स्वरूपेण चाप्रतिभासमानायां स्मृतावनुभवस्मरणयोविवेको न गृहीतो भवतीत्यग्रहणमख्यातिरुच्यते।
तथा हि भ्रान्तबोधेषु प्रस्फुरद्वस्तुसंभवात् ।
चतुष्प्रकारा विमतिरुपपद्यत वादिनाम् ।। विपरीतख्यातिः असतख्यातिः आत्मख्यातिरख्यातिरिति तत्र विपरीत. ख्यातिस्तावत्कारणाभावादेव निरस्ता,
विपरीतख्याते: ख्यात्यन्तरेण सांकर्यांपादनम् - अपि च विपरीतख्यातौ त्रयी गतिः रजतं वा ऽन्यदेशकालमत्रालम्बनं शुक्तिका वा निगूहितनिजाकारा सती परिगृहीतरजताकारा च अथ वा अन्य. दालम्बनमन्यश्च प्रतिभाति आलम्बनं शुक्तिका रजतं च प्रतिभातीति, तत्र यदि