________________
प्रमाणप्रकरणम्
रजतमालम्बनं तदियमसख्यातिरेव न विपरीतख्यातिः असतस्तत्र रज. तस्य प्रतिभासात् ।
अथान्यदेशकालं तदस्त्येवेत्यभिधीयते ।
इहासन्निहितस्यास्य तेन सत्त्वेन को गुणः ॥ अपि च देशकालावपि किं सन्तौ प्रतिभासेते उतासन्ताविति, यदि सन्तौ ५. तर्हि तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात् असन्तौ तूभावपि रजतवन्नालम्बनं भवितुमर्हतः ।।
अथ स्मृत्यारूढं रजतमस्यां प्रतीतो परिस्फुरतीत्युच्यते तर्हि स्मृत्युपारूढमिति को ऽर्थः, स्मरणमपि ज्ञानमेव तदपि कथमसदर्थविषयं स्यात्, स्मृतेरनर्थजत्वमेव स्वरूपमितिचेद् अस्तु कामं तत्सामान्यादत्राप्येवं प्रयोग इत्येतद-१० पि तावन्न ब्रमः, तथा त्वनर्थजन्यया स्मृत्या सोऽर्थः कथमिह सन्निधापयितुं पार्यते सा हि न स्पृशत्येवा ऽर्थम् , तस्मादसन्निहितरजतालम्बना विपरीतख्यातिरसत्ख्यातेन विशिष्यते एव ।
अथ स्थगितनिजवपुरुपगृहीतरजतरूपा शुक्तिका ऽत्र प्रकाशते इति नेयमसख्यातिरुच्यते तदिदमपूर्व किमपि नाटकमियमस्मिन् कृत्यासीता प्रवृत्तेति, १५ तथाहि किमत्र. शुक्तीतिप्रतीतिरुत रजतमिति, शुक्तिकाप्रतीतौ तु शुक्तिरेव न रजतमत्र भ्रमार्थः कः, रजतप्रतोतौ तु शुक्तिरसावित्यत्र किं प्रमाणम् , बाधकप्रत्ययादेवमधिगतम् इति चेन्मेवम्, न हि ज्ञानान्तरेणास्या: प्रतीतेविषयो व्यवस्थापयितुं युक्तः, बाधकेन हि ज्ञानेन पूर्वज्ञानगृहीतस्य वस्तुनो ऽसत्त्वं नाम ख्याप्यतां न तु तस्य विषयो निरूप्यते, अनर्थित्वाद्वा कदा चिदप्रवृत्तस्य पुंसो बाधकानुत्पत्तो को ऽस्याः प्रतीतेः विषयं व्यवस्थापयिष्यति, तस्माद्यदेवास्यां चकास्ति तदेव रजतमस्या विषय इति युक्तं वक्तुम् , शुक्तिस्तु निगूहितनिजवपुरिति दुर्विदग्धवाचोयुक्तिरियम् ।
ये त्वालम्बनतां शुक्ते रजतस्यावभासनम् । वदन्त्यस्मिन भ्रमज्ञाने तेषामतितरां भ्रमः ।। न ह्यालम्बनता युक्ता सन्निधाननिबन्धना । तत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः ॥ तदेवालम्बनं बुद्धेर्यदस्यामवभासते । अन्यदालम्बनं चान्यद्भातीति भणितिर्नवा ।। अतो रजतमेवैतबुद्धिप्राह्यमसच्च तत् । एवं विपर्ययख्यातिरसत्ख्यातेन भिद्यते ॥