________________
१६४
न्यायमञ्जर्याम्
असत्ख्यात्यभावाक्षेप:तत्किमसत्ख्यातिरेव साधीयसी तामेवाभ्युपगच्छामः मैवम् , सा ऽपि नोपपद्यते एव, असत्ख्यातिरिति को ऽर्थः, किमेकान्तासत एवार्थस्य प्रथनम् अथ देशान्तरादौ विद्यमानस्येति, उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा परैरपि तत्र रजतस्य सत्त्वानभ्युपगमात् , देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वाद्, एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम् आकाशनलिनीपल्लवादेरप्रतिभासनात् , वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेद् न, अर्थमन्तरेण वासनथा अप्यनुपपत्तः, अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते सा कथमसदर्थप्रतिभासहेतुः स्यात्, भवत्वन्या वा भवदभिमता का चन वासना ऽपि त्वसत्त्वाविशेषे किमिति रजतमितिमुपजनयति न गगननलिनप्रतीतिमिति कुतस्त्यो नियमः, तदलमनया।
नात्यन्तमसतो ऽर्थस्य सामर्थ्यमवकल्पते । व्यवहारधुरं वोढुमियतीमनुपप्लुताम् ॥
__आत्मख्यात्यभावाक्षेपःअपि च सत्त्वेन प्रतिमातीति असत्ख्यातिरपि न विपरीतख्यातिमतिवर्त्तते, तस्माद्वरमात्मख्यातिरस्तु ।
विज्ञानमेव खल्वेतद्गृह्मात्यात्मानमात्मना । बहिनिरूप्यमाणस्य प्राह्यस्यानुपपत्तितः ।। बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः ।
तद्वहत्यर्थशून्या ऽपि लोकयात्रामिहेशीम् ।। उच्यते-नात्मख्यातिरपि युक्तिमती, विज्ञानात्मनो हि प्रतिभासे ऽहं रजतमिति प्रतीतिः स्याद् नेदं रजतमिति, किं च यदन्तज्ञेयरूपं हि बहिर्वदवभास-ते' झ्यभ्युपगमादियमपि विपरीतख्यातिरेव स्यात् , असत्ख्यातिरपि चेयं भवत्येव बहिर्बुद्धरसत्त्वात् , बुद्धिरस्त्येवेति चेद् बहिष्ट्र तर्हि चिन्त्यं सदसत्त्वादिति, व तावत्सद् बुद्धेर्बाद्यत्वाभावात् , असत्वे त्वसत्ख्यातिरित्युक्तम् ।
स्वतः प्रामाण्यसमर्थनाय अख्यात्युपपादनम्तस्मात्ख्यातित्रये ऽप्यस्मिन्नन्योन्यानुप्रवेशिनि ।
युच्या विरुध्यमाने च श्रेयस्यख्यातिरेव सा॥ ख्यातित्रयवादिभिरपि चेयमप्रत्याख्येया नूनमख्यातिः, आत्मख्यातो ताव. लात्मतया विज्ञानस्य ख्याति स्ति विच्छेदप्रतिभासादित्युक्तत्वात् , असख्यातावपि असत्त्वमर्थस्य नैव प्रतिभासते प्रवृत्त्यादिव्यवहारोच्छेदप्रसङ्गात् ,