________________
प्रमाणप्रकरणम्
१६५
विपरीतख्यातावपि रजतस्य सन्निहितस्थ ज्ञानजनकत्वम् अजनकस्य च प्रतिभासे नेष्यते एव, तत्र स्मृत्युपस्थापितं रजतमवगतिजनकमुपगतम् , अतश्च रजतस्मृतिरपरिहार्या, सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते स्मरामीति प्रत्ययाभावात् ।
तस्मात्प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः ।
अभ्यस्ते विषये लिङ्गप्रतिबन्धां स्मृति यथा ।। सो ऽयं स्मृतिप्रमोषस्तत्त्वाग्रहणमख्यातिरुच्यते ।
एवं सतीयमख्यातिरिष्यते सर्ववादिभिः ।
तथा प्रकटयद्भिस्तु पीतं प्राभाकरैर्यशः ।। ननु रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूद् इदमित्यत्र पुरोऽवस्थितध. मिप्रतिभासात्कथमख्यातिः, उच्यते, न पुरोऽवस्थितो धर्मी शुक्तिकेयमिति स्पष्टतया गृह्यते तथा चाभ्युपगमे भ्रमाभावप्रसङ्गात् , किं तु तेजस्वितादिविप. रीतं धर्मिमात्रमवभासते, धर्मसारूप्याच्च तदानी रजतं स्मयते, ते एते ग्रहणस्मरणे विविक्ते अपि विविक्ततया न गृह्यते इति विवेकाग्रहणमख्यातिः न तु सर्वेण सर्वाप्रतिपत्तिरेव, व्यधिकरणयोश्च ग्रहणस्मरणयोवैयधिकरण्यं चेन्न गृहीतं किमन्यदस्तु सामानाधिकरण्यात् , न तु यदेवेदं तदेव रजतमिति सामानाधिकरण्येन ग्रहणमस्ति सा हि विपरीतख्यातिरेव स्यात् , वैयधिकरण्यानुपन. हादेव प्रमातुः प्रवृत्तिः अविवेकात्साधारण्याभिमानेन प्रवृत्तिरिति फलत इयं वाचोयुक्ति:
सामानाधिकरण्येन के चित्तत्पृष्ठभाविनम् । परामर्शमपीच्छन्ति तन्न श्रद्दध्महे वयम् ।। अख्यातिपक्ष एवं हि हीयेतैकत्ववेदनात् ।
वक्रैश्च वितथा ख्यातिरक्षरैः कथिता भवेत् ।। नन्वेवमख्यातिपक्षे प्रतिष्ठाप्यमाने नेदं रजतमिति पूर्वावगतरजतप्रतिबोध : बोधी बाधकप्रत्ययो दृश्यमानः कथं समर्थयिष्यते, अप्रतीतिज्ञो देवानांप्रियः, न ह्यनेन रजतनिषेधो विधीयते किं तु प्रागगृहीतो विवेकः प्रख्याप्यते, न इदं रजतं यदेवेदं तदेव रजतमित्येतन्न इदमिदं रजतं रजतम् , एतदुक्तं भ. वति इदमन्यद्रजतमन्यदिति, सो ऽयं विवेकः ख्यातितो भवति ।
नन्वेवामदं रजतमित्यादौ स्मरणानुभवयोर्भवतु विवेकाग्रहणं स्वप्ने तु कथमेतद्भविष्यति, भीरो किं जातं स्वप्ने
विवेकेन न गृह्यते स्मरणानुभवौ क चित् । स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते ।