________________
न्यायमञ्जयाम्
सहशदर्शनाद्विना स्मृतिरेव कुतस्त्येति चेद् न, नानाकारणकत्वात्स्मरणस्य निद्राकषायितमप्यन्तः करणं स्मरणकारणं भवत्येव, यद्येवं द्विचन्द्रतिक्तशर्करादिप्रत्ययेषु कथं स्मृतिप्रमोषः आः कुण्डशेखर कथमसकृदभिहितमपि न बुध्यसे
न सर्वत्र स्मृतेरेव प्रमोषो ऽभ्युपगम्यते । किं त्वख्यातिरतश्चासौ कथं चित्कस्य चित्क चित् ।। भवत्यनुभवस्मृत्योविवेकाग्रहणं क चित् । क चित्तु स्मर्यमाणस्य तथात्वेनानुपग्रहः ॥ द्विधाकृता क चिद्वृत्तिर्ने त्रस्य तिमिरादिना । न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ।। क चिद्रसनसंपृक्त पित्ते तिक्तत्ववेदनात् । परिच्छेत्तं न शक्नोति माधुर्यं शर्करागतम् ॥ गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवति तत् ।
तथा तु न विजानाति निगिरनेष शर्कराम् ।। एतेन पीतशङ्खादिख्यातयो ऽपि व्याख्याताः ।
तदेवं सति सर्वत्र सम्यगग्रहणं भ्रमः । न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥ अजातमिथ्याशङ्कश्च न संवादमपेक्षते । तस्मान्न कश्चित्परतः प्रामाण्यमधिगच्छति ।। एवं स्वतः प्रमाणत्वे सिद्धे वेदे ऽपि सा गतिः।
अपवादद्वयाभावो वक्तव्यश्चात्र पूर्ववत् ॥ परतः प्रामाण्यसमर्थनाय विपरीतख्यातिसमर्थनम्
अत्र प्रतिविधीयते, यदुक्तमिदं रजतमिति स्मरणानुभवस्वभावे विवेकेना. गृह्यमाणे द्वे एते ज्ञाने इति तदसाम्प्रतम् , प्रत्यभिज्ञावदेकत्वेनैव संवेद्यमानत्वात् , यदेवेदं पुरोऽवस्थितं भास्वररूपायधिकरणं धर्मिसामान्यं तदेव रजतमिति वि. शेषतः प्रतिपद्यते, यदिदमप्रतः स्थितं तद्रजतमिति सत्यरजतप्रतीतिवत् , अनु. भूततया हि न रजतमत्र प्रकाशते किं त्वनुभूयमानतया, अनुभूतताग्रहणं च स्मरणमुच्यते नानुभूयमानताग्रहणम् स्वप्रकाशा च संवित्तिरिति भवतां दर्शनम् , तत्रैषा रजतसंवित्तिः केन रूपेण प्रकाशतामिति चिन्त्यम् , यदि स्मरणात्मना कः प्रमोषार्थः, अथानुभवात्मना तदियं विपरीतख्यातिरेव स्मतेरनुभव. त्वेन प्रतिभासात् , अथ संविन्मात्रतयैव प्रकाशते तदपि न युक्तम् , रजतवि. षयोल्लेखात् स्मरणानुभवविशेषरहितायाश्च विषयसंवित्तेरनुपपत्तेः, न चेयम