________________
१६७
प्रमाणमकरणम्
प्रतिपत्तिरेवेति वक्तमुचितं मदमूर्च्छादिदशाविसशस्त्र प्रकाशसंवेदनानुभवात्, यथा इदमित्यंशे स्वप्रकाशं संवेदनं तथैव रजतमित्यत्रापि ।
अपि च द्वयोश्चांशयोः समाने संवेदने तत एकं प्रत्यक्ष लब्धमपरं स्मरणफ• मिति कुतस्यो विभागः, इदमित्यत्र च किमवभासते इति निरूप्यम्, यदि शुक्तिकाशकलं सकलस्वगतविशेषखचितमवभाति तदा तद्दर्शने सति रजतस्मरणस्य को ऽवसरः, भवदपि वा सादृश्यकृतं स्मरणं न तद्विवेकाय कल्पते देवदत्तदर्शनानन्तरोद्गत तत्सदृशपुरुषान्तरस्मरणवत् ।
अथ धर्ममात्रमिदमिति प्रत्यये प्रतिभाति न शुक्तिकाशकलं तद्वाढमिष्यते तदेव चेदं सामान्यधर्मग्रहणवशविरुद्ध संस्कारेपनिबन्धनविरुद्ध विशेषस्मरणका. कमिदं रजतमिति सामान्योपक्रमे विशेषपर्यवसानं ज्ञानं यदिदं तद्रजतमिति १ । सामानाधिकरण्यावमर्शात्, रजतानुभवाभिमानेनैव च रजतार्थी तत्र प्रवर्त्तते ।
ननु स्मरणानुभवयोर्विवेकमप्रतिपद्यमानः प्रवर्त्तते इत्युक्तम्, श्रुतमिदं यत्र भवद्भिर्धर्मकीतिगृहादाहृतं दृश्यविकल्पावर्थावे की कृत्य प्रवर्त्तते इति, किं च चौयमपीदं न कथं चन स्वार्थे पुष्णाति यावद्धि दृश्यं गृहीतमिति न जातः प्रत्ययः तावत्कथं दृश्यार्थिनस्तत्र प्रवृत्तिः, एवमिहापि यावद्रजतं गृहीतमिति न जात: प्रत्ययः तावत् कुतस्तदर्थिनां प्रवृत्तिः, तस्मादस्ति रजतप्रहणं न तु तत्स्मरणप्रमोषमात्रम् ।
ननु रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम्, सत्यं रजतगतविशेषस्मरणमभ्युपगतम्, यथा हि पुरोवस्थिते धर्मिण्यूर्ध्वत्वादिसाधारणधर्मग्रहणात्स्थाणुपुरुषगत विशेषाग्रहणादुभयविशेषस्मृतेः संशयो भवति एवमि. हापि तेजस्वितादिसामान्यधर्मग्रहणाद्विशेषाग्रहणाद्रजतगतविशेषस्मृतेश्च तस्मिधर्मिणि रजतप्रत्ययो भवति विपर्ययात्मकः, संशये भयविशेषस्मरणं कार - गम् इह त्वन्यतरविशेषस्मरणमिति विशेषः, अत एव चागृहीतरजतस्येदं ज्ञानं नात्पद्यते सदृशाग्रहणे वा निशीथादाविति, न त्वेतावता स्मरणमात्रमेवेदमितीयति विरम्य स्थातव्यम्, स्मरणजन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात्, अत एव तत्पृष्ठभाविपरामर्शवादिनो वरं सत्यवाचः, ते हि प्रतिभासं न निहनुवते, यत्तु विपर्ययावगतेः कारणं विकल्पितं तत्रोक्तमेव प्रामाणिकैः । कार्यं चेदवगम्येत किं कारणपरीक्षया । कार्य चेन्नावगम्येत किं कारणपरीक्षया || कार्याकस्मिकतानुपपत्तेश्च कल्प्यतां कारणं तच्च क्लृप्तमेव दोषसहित मिन्द्रियं यथा संस्कार सहकारि प्रत्यभिज्ञायामिति ।
सुवते शालयो दुष्टा न यद्यपि यवाङ्कुरम् । शालिकार्य वपूपादि जनयन्त्येव कल्मषम् ॥