SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६८ न्यायमअाम् तस्मादोषकलुषितादिन्द्रियात्पुरोऽवस्थितधर्मिगतत्रिकोणत्वादिविशेषावमशकौशलशून्यात्सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृताद्भवति विपरीतप्रत्ययः, सम्यग्ज्ञानापेक्षया च तद् दुष्टमुच्यते स्वकार्ये तु विपर्ययज्ञाने तत्कारणमेव न दुष्टम् , तस्माद्रजतमित्यनुभव एव न प्रमुषितस्मतिः । अपि च नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधनधिगमयदुत्पद्यते नेदं रजतमिति यदहमद्राक्षं तद्रजतं न भवतीति, प्रसक्तस्य चायं निषेधः अननुभूतं त्वप्रसक्तमपि प्रतिषिध्यमानं रजतमिव कनकमपि किमिति न प्रतिषिध्यते। ___ यत्तु व्याख्यातं प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमि. ति तद्वयाख्यानमात्रमेव तथा ऽननुभवात, न ह्येवं बाधक उद्घाट्यते यदवि. विक्त तद्विविक्तमिति, अतो यत्किंचिदेतत्, तस्मान्न रजतस्मरणं रजते वा कदा चिदनुभवोऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम्, स्वप्ने तु स्वशि. रश्छेदादेरत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव त्रपाकरम्, जन्मान्तरे निजमस्तकलवनमनुभूतमनेनेति चेद् इदमपि स्वभाषितमसारम, यज्जन्मान्त. रानुभूतं स्मर्यते तत्र च कुतस्त्य एष नियमो यत्कदा चिदेव स्मयते न सर्वदा सर्वमिति । ननु भवता ऽप्यसत्ख्यातिं निरस्यता स्वप्नज्ञानेषु ताहक्षु किं वक्तव्यं यद्व. क्तव्यं तत्रैव श्रोष्यसि असन्न प्रतीभातीत्युच्यते न त्वननुभूतमिति । नन्वननुभूतं सत्कथं जानीषे सदिति चेज् ज्ञानं तदनुभूतमिति, मैवम, मया तन्नानुभूतम् अन्येनानुभविष्यते परानुभतं च सदिति शक्यते वक्तम्, परानु. भूते तु स्मरणमघटमानमिति नावयारत्र वस्तुनि समानयोगक्षेमत्वम् । ___अपि च भवन्मते स्वप्नस्मृतेः स्मृतित्वेनाग्रहणे केन रूपेण ग्रहणमिति चिन्य. म, रूपान्तरेण ग्रहणे विपरीतख्यातिः सर्वात्मना त्वग्रहणे स्वप्नसुषुप्तयोरविशे. पप्रसङ्गः, अनुभवप्रत्ययश्च स्वप्ने संवेद्यते न स्मरणानुल्लेखमात्रमिति दुरभि निवेश एव स्मृतिप्रमोषसमर्थनं नामेति, द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः । ___ ननूक्तं सुषिरभिन्ना नयनवृत्तिरेकत्वेन ग्रहीतुं न शक्नोति शशाङ्कमिति, भोः श्रोत्रिय तादृशी दृशो वृत्तिरेकत्वमिन्दार्मा ग्रहीद् द्वित्वानुभवं तु भ्रान्तं क प्रच्छादयामः, ननु चक्षुवृत्तौ तद् द्वित्वं तद्गतत्वेन तु यत्तस्याग्रहणं स एव भ्रमः, नैतदेवम्, नेत्रवृत्तः सर्वत्र परोक्षत्वात् । किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते । इयं गह्यमाणेव चक्षुवृत्तिः प्रकाशिका ।।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy