________________
प्रमाणप्रकरणम्
१६९
एवमुच्यमाने चैकचन्द्रग्रहणे ऽपि वृत्त्येकत्वाग्रहणादख्यातिरेव भवेत,
यदपि तिक्तशर्करादिप्रत्ययेष्वख्यातिसमर्थनकदाशया पित्तवृत्तेस्तिक्तत्वस्य संवेद्यमानस्य तत्स्थत्वेनाग्रहणमुपवर्णितं तदपि कुशकाशावलम्बनप्रायम् ।
मोहात्पित्तगतत्वेन तिक्तता चेन्न गृह्यते।।
मा ग्राहि शर्करायां तु किंकृता तिक्ततामतिः ॥ पित्तं त्विन्द्रियस्थं विमिरवदगृह्यमाणमपि भ्रममुपजनयति शरीरस्थमिव ज्वरं शिरोादि रोगमित्यलं प्रसङ्गन ।
एवं सर्वत्र नाख्यातिनिर्वहन्तीव लक्ष्यते । न चैतयापि परतः प्रामाण्यमपहन्यते ।। रजते ऽनुभवः किं म्यादुत प्रमुषिता स्मतिः । द्वैविध्यदर्शनादेवं भवेत्तत्रापि संशयः ।। संशयानश्च संवादं नूनमन्वेषते जनः । तदपेक्षाकृत तस्मात्प्रामाण्यं परतो ध्रुवम् ।। न चैष शून्यवादस्य प्रतीकारक्रियाक्रमः । अनर्थजा हि निर्दग्धपित्रादौ भवति स्मृतिः ।। दृष्टान्तीकृत्य तामेव शून्यवादे समुत्थितः । भ्रमोपह्नवमात्रेण प्रतिहन्तुं न शक्यते ।। अथास्ति का चित्परतः प्रामाण्यस्य निषेधिका । शून्यवादस्य या युक्तिः सैव वाच्या किमेतया ॥ तस्माद्यथार्थमस्याः संश्रयणं तद् निषिद्धमख्यातः ।
संविद्विरोध एव प्रकटित इति धिक् प्रमादित्वम् । तदुक्तम्--
"कृतश्च शूलविध्वंसो न चानङ्गश्च सङ्गतः ।
आत्मा च लाघवं नीतस्तच्च कार्य न साधितम् ॥" यत्पुनर्विपरीतख्यातौ पक्षत्रयमाशङ्कय दूषितं तदपि न युक्तम् , अस्तु तावदयमेव पक्षः रजतमालम्बनं तदेव चास्यां प्रतीतौ परिस्फुरतीति ।
नन्वत्र चोदितम् असत्ख्यातिरेव सा भवेदिति नैतत्साधु, देशान्तरादौ रजतस्य विद्यमानत्वात्, असख्यातिपक्षे हि
तत्रैकान्तासतो ऽर्थस्य किं देशान्तरचिन्तया । किं कुर्मस्तादृशस्येव वस्तुनः ख्यातिदर्शनात् ॥ यस्तु देशान्तरे ऽप्यर्थो नास्ति कालान्तरे ऽपि वा।
न तस्य ग्रहणं दृष्टं गगनेन्दीवरादिवत् ॥ अयमेव च द्वयोरसत्त्वयाविशेषः यदेकस्य ग्रहणं दृष्टमितरस्य न दृष्टमिति । २२ न्या०