SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्याम् नूक्तं तत्रासतो ऽर्थस्य कथं ज्ञानजनकत्वमजनकस्य वा कथं प्रतिभास: उक्तमत्र सदृशपदार्थदर्शनाद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति, न चास्योपस्थानं पशोरिव रज्ज्वा संयम्य ढौकनम् अपि तु हृदये परिस्फुरतो ऽर्थस्य बहिरवभासनम्, न चैतावतेयमात्मख्यातिरसत्ख्यातिर्वेति वक्तव्यं विज्ञानाद्विच्छेदप्रतीतेः अत्यन्तासदर्थप्रतिभासाभावाच्चेवि, अत एव पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु पक्षः । " ननूक्तं कृत्यासीतावत्किमिदं वेशभाषापरिवर्तनं कथं च रजतज्ञाने शुक्तिका saभासितुमर्हति श्रुतमिदं नाटकं न तु वयमत्रापहासपात्रग, शुक्तिकेति वस्तुस्थितिरेषा कथ्यते पुरोऽवस्थितं धर्मिमात्रं भास्वररूपादिसादृश्योपजनितरजतविशेषस्मरणमत्र प्रतिभातीति ब्रूमः, यदेतत्पुरः किमपि वर्त्तते तद्रजतमित्यनुभवात् वस्तुस्थित्या तु शुक्तिरेव सा त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगृहिनिज कारेत्युच्यते रजतविशेषस्मरणाच्च परिगृहीतरजताकारेति एतच्च विषयेन्द्रियादिदोषप्रभवेषु शुक्तिकारजतावभासभास्कर किरण जलावगमजलद्गन्धर्वनगर निर्वर्णनरज्जुभुजगप्रणरोहिणीरमणद्वय दर्शनशङ्खशर्करापीततिक्ततावसायकेशकू कालो कनादिविभ्रमेष्वभ्युपगम्यते मनोदोषनिबन्धनेषु तु मिध्याप्रत्ययेषु निरालम्बनेषु स्मृत्युल्लिखित निराकार: प्रकाशते इति, १७० वस्तु तृतीयः पक्षः अन्यदालम्बनमन्यश्च प्रतिभातीति केचिदाश्रितः तत्रापि न सन्निहितस्यालम्बनत्वमुच्यते येन भूप्रदेशस्यापि तथात्वमाशङ्कयेत, नापि श्रालम्बनस्यजनकत्वं यच्चक्षुरादावपि प्रसज्येत, किं त्विदमित्यङ्गुल्या निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं तदालम्बनमित्युच्यमाने न कश्चिद्दोषः । ननु केशोण्ड्रकज्ञाने किमालम्बनकारणम्, किं चिन्तु तिमिरं रोमराजिरिव नयनधानो मध्ये वास्ते तेन द्विधा कृता नयनवृत्तिः द्वित्वेन चन्द्रमसं गृह्णाति, किं चित्तु तिमिरं तत्र विवरवदन्तरान्तरा तिष्ठति चक्षुषः तेन विरलप्रसृता नयनरश्मयः सूक्ष्माः सूर्य्याशुभिरभिहन्यमानाः केशकूर्चकाकारा भवन्तीति तदेवालम्बनम, अनुदिते ऽस्तमिते वा सवितरि केशोण्डुकप्रत्ययस्यानुत्पादात् । गन्धर्वनगरज्ञाने जलदाः पाण्डुरत्विषः । आलम्बनं गृहाट्टालप्राकाराकारधारिणः ॥ तस्माद्विपरीतख्यातौ पक्षत्रयमपि निरवद्यम् । यः पुनरितरेतरसङ्करः ख्यातीनामुदाहारि तत्रात्मख्यात्य सत्ख्याता अपवह्नि वयमपि विज्ञानाद्वैतमपाकरिष्यन्तः पराकरिष्याम इति किं तचिन्तया, विपरीतख्यातौ तु तत्साङ्कर्य परिहृतम । यत्पुनरवादि सर्ववादिभिः स्मृतिप्रमोषो ऽभ्युपगत एव प्राभाकरैस्तु यश. पातमिति तत्र वाद्यन्तराणि तावद्यथा भवन्ति तथा भवन्तु वयं तु स्मृत्युपारू
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy