________________
प्रमाणमकरणम्
१७१
ढरजताद्याकारप्रतिभासमभिवदन्तो वाढं स्मृतिप्रमेोषमभ्युपगतवन्तः, किं तावत्येव विश्राम्यति मतिः, अपि तु रजताद्यनुभवा ऽपि संवेद्यते इति न स्मृतिप्रमोषमात्रे एव विरन्तव्यम्, अतो विपरीतख्यातिपक्ष एव निरवद्य इति स्थितम् ।
यस्तु बाघप्रकारः प्राग्विकल्पितः तत्र सहानवस्थान संस्कारोच्छेदादिपक्षा अनभ्युपगमेनैव निरस्ता इत्यस्थाने कण्ठशोष आयुष्मता ऽनुभूतः, विषयापहारस्तावदस्तु बाधः विषयस्य च न प्रतिभातत्वमपहिय ते, किन्तु प्रतिभात. स्यासत्त्वं ख्याप्यते इत्यपहारार्थः, असत्त्वमपि नेदानीमुपनतस्य ख्याप्यते येन दृष्टपूर्वदुघणभग्नकुम्भाभावप्रतिभासवदबाधः स्यात् न च तदानीमध्यभावग्रहणे वस्तुनो यात्मकत्वमाशङ्कनीयं पूर्वावगताका रोपमर्दद्वारेण बाधकप्रत्ययोत्पादात्, यन्मया तदा रजतमिति गृहीतं तद्रजतं न भवति अन्यदेव तद्वस्त्विति ।
ननु स्वकालनियतत्वाज् ज्ञानानां कथमुत्तरस्य ज्ञानस्य पूर्वज्ञानोत्पादका लावच्छिन्नतद्विषयाभावग्रहणसामर्थ्यम्, किं कुर्मः तथा प्रत्ययोत्पादात्, न भग्नघटवदिदानीं तन्नास्तिता गृह्यते अपि तु तदैव तदसदिति प्रतीतिः, यथा च न वर्त्तमानैकनिष्ठा एव विषयप्रतीतयस्तथा क्षरणभङ्गभङ्गे वक्ष्यामः,
अथ वा फलापहारो भवतु बाधः प्रमाणफलत्वं च हानादिबुद्धीनां प्रत्यक्षलक्षणे वर्णितमिति तदपहरणात्प्रमाणं बाधितं भवत्येव, किं कुर्वता बाधकेन प्रमाणफलमपहृतमिति चेत् ।
गायता नृत्यता वा ऽपि जपता जुह्वता ऽपि वा । तश्चेत्कार्यं कृतं तेन किमवान्तरकर्मणा ॥ तदभ्युपगमे वापि तत्किं विधता कृतम् । तच्च किं कुर्वतेत्येवमवधिः को भविष्यति ॥
तदलममुनावान्तरप्रश्नेन सर्वत्र बाधकप्रत्ययोपजनने सति हानादिरूपं पूर्वप्रमाणफलं निवर्त्तते इति तेन तद्बाधितमुच्यते, समानासमानविषयविकल्पो ऽपि न पेशलः एकस्मिन्विषये विरुद्धाकारग्राहिणोर्ज्ञानय । बध्यबाधकभावाभ्युपगमात्, चित्रादिप्रत्यये कथं न बाघ इति चेत् पूर्वज्ञानेापमर्देनोत्तरविज्ञानानुत्पादात्, अत एवैकत्रापि धर्मिणि बहूनां धर्माणामितरेतरानुपमदन वेद्यमानानामस्त्येव समावेशः, पूर्वोपमर्देनेत र विज्ञानाजननाच्चैतदपि प्रत्युतं भवति ।
यदुक्तं पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सत्यागन्तुज्ञानमुत्तरं बाध्यतामिति, यतः पूर्वोपमर्देनैव तदुत्तरं ज्ञानमुदेति विषय सहायत्वात्प्रमाणान्तरानुगृह्यमागत्वाच्च उत्तरमेव ज्ञानं बाधकमिति युक्तम्, तस्मादस्ति ज्ञानानां बाध्यबाध