________________
१७२
न्यायमअयाम् कभावः स चायं बाधव्यवहारो विपरीतख्यातिपक्षे एव सामर्थ्यमस्खलितं दधातीति स एव ज्यायान् ।
___ मीमांसकैकदेशिमतखण्डनम् - अज्ञः को ऽपि नाम मीमांसकस्त्वाह, येयं शुक्तिकायां रजतप्रतीतिविपरी. तख्यातिरिति तद्वादिनामभिमता सा तथा न भवतीति सत्यरजतप्रतीतिवदत्रा. प्यवभास्यरजतसद्भावात् , लौकिकालौकिकत्वे तु विशेषः, रजतज्ञानावभास्यं हि रजतमुच्यते तच्च किं चिद्यवहारप्रवर्तकं किं चिन्नेति, तत्र व्यवहारप्रव. तकं लौकिकमुच्यते ततो ऽन्यदलौकिकमिति यच्च शुक्तिकाशकलमिति भवन्तो वदन्ति तदलौकिकं रजतं रजतज्ञानावभास्यत्वाद्रजतं तद्वयवहाराप्रवृत्तेरलौकिकमिति ।
तदेतदपरामृष्टसंवेदनेतिवृत्तस्याभिनवपदार्थसर्गप्रजापतेरभिधानम् बाधकप्र. त्ययेन तत्र रजताभावस्य ख्यापनात् , नेदं रजतमिति हि रजतं प्रतिषेधत्येष प्रत्ययो न विद्यमानरजतस्यालौकिकत्वमवद्योतयते इति ।
अथ नेदं लौकिकमिति व्याख्यायते हन्त वाक्यशेषः क्रियतां संयजत्रैरङ्गा. नीतिवत् , सो ऽयं श्रोत्रियः स्वशास्त्रवर्तनीमिहापि न तां त्यजति न तु तस्या अथमवसरः, अगृह्यमाणे तु रजताख्ये ऽन्यधर्मिणि कथं तद्धर्मत्वेन लौकिक त्वं गृह्यते, रजताभावग्रहणे त्वेष न दोषः भावतदभावयोः धर्मर्मिभावाभावात् , स्मर्यमाणप्रतियोग्यवच्छिन्नो हि अभावो गृह्यते एव, तस्मादत्र नास्त्येव रजतं न पुनरलौकिकं तदस्ति, न च रजतज्ञानावभास्यत्वमानं रजतलक्षणमपि त्वबाधितरजतज्ञानगम्यत्वम् ।
अपि च लौकिकालौकिकप्रविभागः प्रतिभासनिबन्धनो वा स्याद्वयवहा. रसदसद्भावनिबन्धनो वा, न तावत् प्रतिभासनिबन्धनः यथाप्रतीति भावात् क चिद्धि रजतं क चिच्च तदभावः प्रतीयते न तु लौकिकत्वमलौकिकत्वं वा।
अथ व्यवहारप्रवृत्त्यप्रवृत्तिभ्यां लौकिकालौकिकत्वे व्यवस्थाप्येते तद्वक्तव्यं को ऽयं व्यवहारो नामेति, ज्ञानाभिधानस्वभावो हि व्यवहारः स तद्विषयो ना. स्तीत्युक्तम् , तदर्थक्रियानिवर्तनं व्यवहार इति चेत् तर्हि स्वप्ने परिरभ्यमाणा. या योषितः कूटकार्षापणस्य च लौकिकत्वं प्राप्नोति, उत्पद्य नष्ट घटे अर्थक्रि. याया निवृत्तेरलौकिकत्वं स्यात् । ___अपि च यः शुक्तिकायां रजतव्यवहारं न करोति स रजताभावमेव बुवा न रजतस्य सतस्तस्यालौकिकताम् , यदि चेदमलौकिकं रजतं तकिमर्थमिह तदर्थक्रियाथै प्रवर्तते, अलौकिकं लौकिकत्वेन गृहीत्वेति चेत् सैवेयं तपस्विनी विपरीतख्यातिरायाता, तस्माद्विपरीतख्यातिद्वेषेण कृतमीहशा अत्रापि लोकसि. द्वैव प्रतीतिरनुगम्यताम् ।