________________
प्रमाणप्रकरणम् न वा मीमांसका एते स्वभार्यामपि वेश्मतः । निःसारयितुमिच्छन्ति स्वतःप्रामाण्यतृष्णया । न चैवमपि तत्सिद्धिर्बुद्धिद्वैविध्यदर्शनात् । संशये सति संवादसापेक्षत्वं तथैव तत् ॥ क्लेशेत तदमुना ऽपि स्वार्थस्तेषां प्रसिद्धयति न कश्चित् । यद्भवति चैव गत्या राजपथेनैव तद्भवतु ॥ नात्मख्यातिर्बाहयतया ऽर्थप्रतिभासा. नासत्ख्यातिन ह्यसतां धीविषयत्वम् । उक्तो ऽख्यातौ दूषणमार्गो विपरीतख्यातिस्तस्मादश्रयणीया मतिमद्भिः ।। स्थिते च तस्मिन्विपरीतवेदने तदीयसाधर्म्यकृतो ऽस्ति संशयः । तदा च संवादमुखप्रतीक्षणाद्भजन्ति वेदाः परतःप्रमाणताम् ॥
शब्दे परतःप्रमाण्यसमर्थनम्प्रत्यक्षादिप्रमाणानां तद्यथा ऽस्तु तथा ऽस्तु वा।
शब्दस्य हि प्रमाणत्वं परतो मुक्तसंशयम् ॥ ___ दृष्टे हि विषये प्रामाण्यनिश्चयमन्तरेणैव लघुपरिश्रमेषु कर्मसु प्रवृत्तिरिति तदुपयोगिप्रत्यक्षादिप्रमाणप्रामाण्यनिश्चये ऽदुरुपपादे को ऽभिनिवेशः, शब्दे पुनरदृष्टपुरुषार्थपथोपदेशिनि प्रमाण्यमनिश्चित्य महाप्रयत्ननिर्वानि ज्यो. तिष्टोमादीनि न प्रेक्षापूर्वकारिणो यज्वानः प्रयुब्जीरन इत्यवश्यं निश्चेतव्यं तत्र प्रामाण्यम् , तच्च परत एवेति ब्रूमः, शब्दस्य बृद्धव्यवहाराधिगतसंबन्धोपकृतस्य सतः प्रतीतिजनकत्वं नाम रूपमवधृतम् ,तत्त नैसर्गिकशक्त्यात्मकसंबन्धमहिम्ना वा पुरुषघटितसमयसम्बन्धबलेन वेति विचारयिष्यामः, प्रकाशकत्वमात्रं तु दी. पादेरिव तस्य रूपम् , यथा हि दीपः प्रकाशमानः शुचिमशुचिं वा यथासन्निहि. तमर्थमवद्योतयति तथा शब्दो ऽपि पुरुषेण प्रयोज्यमानः श्रवणपथमुपगतः सत्यो ऽनृतो वा समन्विते ऽसमन्विते वा सफले निष्फले वा सिद्धे कार्ये वा ऽर्थे प्रमितिमुपजनयतीति तावदेवास्य रूपम्, अयं तु दीपाच्छब्दस्य विशेषो यदेष सम्बन्धव्युत्पत्तिमपेक्षमाणः प्रमामुत्पादयतीति दीपस्तु तन्निरपेक्ष इति, तस्याः शब्द. जनितायाः प्रमितेर्यथार्थेतरत्वं पुरुषाधीनं सम्यग्दर्शिनि शुचौ पुरुषे सति सत्यार्था सा भवति प्रतीतिरितरथा तु तद्विपरीतेति, तत्र यथा नैसर्गिकमर्थसंस्पर्शित्वं शब्दस्य न रूपमिति समर्थितम् एवमस्य स्वाभाविकं सत्यार्थत्वमपि न रूपम,