________________
१७४
न्यायमञ्जयोम
एवमभ्युपगम्यमाने विप्रलम्भकवचसि विसंवाददर्शनं न भवेत्, तस्मात्पुरुषगुणदोषाधीनावेव शाब्दे प्रत्यये संवादविसंवादौ, न चेन्द्रियादाविव तत्र दुर्भणा गुणाः रागादयो दोषाः करुणादयो गुणाः पुरुषाणामतिप्रसिद्धा एव, पुरुषगुणा एव शब्दस्य गुणाः न स्वशरीरसंस्थाः चक्षुरादेरिवेति, तत्र यदि पुरुषगुणानां प्रामाण्यकारणता नेष्यते दोषाणामपि विप्लवहेतुता माभूत् । ___ यत्तु दोषप्रशमनचरितार्था एव पुरुषगुणाः प्रामाण्यहेतवस्तु न भवन्तीत्यत्र शपथशरणा एव श्रोत्रियाः, न च बाधानुत्पत्तिमात्रेण वैदिक्याः प्रतीतेः प्रामाण्यं भवितुमहति 'पक्ष्मलाक्षीलक्षमभिरमयेद् विद्याधरपदकाम' इत्यादावपि प्रामा. ण्यप्रसङ्गात् , उक्तं च केन चित्
यथा हि स्वप्नदृष्टो ऽर्थः कश्चिद् द्वीपान्तरादिषु । असंवादविसंवादः श्रद्धातुं नव शक्यते ।। तथा चोदनया ऽप्यथै बोध्यमानमतीन्द्रियम् ।
असंवादविसंवादं न श्रद्दधति के चनेति ।। तत्र स्वप्नज्ञाने हेतुः निद्रादिदोषो ऽस्तीति दुष्टकारणज्ञानादप्रामाण्यमिति चेल लोलाक्षीलक्षवाक्ये किं वक्ष्यसि, प्रभवस्तस्य न ज्ञायते इति चेन्नतरामसौ वेदेऽपि त्वन्मते ज्ञायते इति को विशेष:, महाजनादिपरिग्रहो ऽस्य नास्तीति चेद् अन्वेषणीयं तर्हि प्रामाण्यकारणं न बुद्ध्युत्पादकत्वादेवौत्सर्गिकं प्रामाण्यमिति युक्तम् ।
साक्षाद्रष्टुनरोक्तत्वं शब्दे यावन्न निश्चितम् ।
बाधानुत्पत्तिमात्रेण न तावत्तत्प्रमाणता ।। यदपि वेदे कारणदोषनिराकरणाय कथ्यते 'यद्वा वक्तरभावेन न स्युर्दोषा निराश्रया'(१) इति तदपि न साम्प्रतम्, असति वक्तरि प्रामाण्यहेतूनां गुणानामप्यभावेन तत्प्रामाण्यस्याप्यभावात्, न च वेदे वक्तुरभावः सुवचः, तथा ह्येतदेव तावद्विचारयामः किं वेदे वक्ता विद्यते न वेति ।
(१) श्लोकवातिके मू० २ श्लो० ६३ । 'तद्गुणैरपकृष्टानां शब्दे संक्रान्त्य संभवात्' इति कारिकापूर्वार्द्धम् । ननु वक्तृगुणा वक्तवैव दोषानुत्सारयन्ति कथं वैनिरस्तैः शब्दे निदुष्टत्वमत आह-तद्गुणैरिति । वक्तृदोषा एव शब्दं दूषयन्ति इत्युक्त ते चेद् गुणैरुत्सारिता दोषास्तदा कः प्रसङ्गः शब्दे दोषाणाम् न हि वक्तर्यनाश्रितानामेव दोषाणां शादे संक्रान्तिः संभवति इति । वक्तुरभावादेव निराश्रया दोषा न नित्ये वेद. वाक्ये भवितुमुत्सहन्त इत्याह-यद्वेति-दोषाभावान वेदानां स्वतः प्रामाण्यं विहन्यत इति भावः।