________________
प्रमाणप्रकरणम्
१७५ ननु च वेदे प्रमाणान्तरसंस्पर्शरहितविचित्रकर्मफलगतसाध्यसाधनभावोपदेशिनि कथं तदर्थसाक्षादी पुरुष उपदेष्टा भवेत् , उच्यते
वेदस्य पुरुष: कत्तो न हि यादृशतादृशः । किं तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥ स देवः परमो ज्ञाता नित्यानन्दः कृपान्वितः। क्लेशकर्मविपाकादिपरामर्शविवर्जितः ।।
ईश्वराङ्गीकारे पूर्वपक्षःअत्राह किं ब्रूषे त्रैलोक्यनिर्माणनिपुण इति अहो तव सरलमतित्वम् , न हि तथाविधपुरुषसद्भावे किंचन प्रमाणमस्ति ।
तथा हीश्वरसद्भावो न प्रत्यक्षप्रमाणकः । न ह्यसावक्षविज्ञाने रूपादिरिव भासते ॥ न च मानसविज्ञानसंवेद्योऽयं सुखादिवत् । योगिनामप्रसिद्धत्वान्न तत्प्रत्यक्षगोचरः।। प्रत्यक्षप्रतिषेधेन तत्पूर्वकमपाकृतम् । अनुमानमविज्ञाते तस्मिन् व्याप्त्यनुपग्रहात् ।। न च सामान्यतोदृष्टं लिङ्गमस्यास्ति किं चन । क्षित्यादीनां तु कार्यत्वमसिद्धं सुधियः प्रति ।। शैलादिसन्निवेशो ऽपि नैष कनुमापकः । कर्बपूर्वककुम्भादिसन्निवेशविलक्षणः ॥ दृष्टः कञविनाभावी सन्निवेशो हि यादृशः।। तादृङ् नगादौ नास्तीति कार्यत्ववदसिद्धता । सिद्धत्वेपि न सिद्धत्वमनैकान्त्यात्तणादिभिः ।। अकृष्टजातैः कतारमन्तरेणाप्तजन्मभिः । तेषामुत्पत्तिसमये प्रत्यक्षत्वं न लक्ष्यते ।। कत्तईश्यत्वमप्येवमभावो ऽनुपलब्धितः । न च क्षितिजलप्रायष्टहेत्वतिरेकिणः ॥ कस्यापि कल्पनं तेषु युज्यते ऽतिप्रसङ्गतः। तेन कर्तुरभावे ऽपि सन्निवेशादिदर्शनात् । अनेकान्तिकता हेताविप्रत्वे पुरुषत्ववत् । किं च व्याप्त्यनुसारेण कल्प्यमानः प्रसिद्ध्यति । कुलालतुल्यः कत्तेति स्याद्विशेषविरुद्धता।