SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्याम् व्यापारवान सर्वज्ञः शरीरी क्लेशसंकुलः । घटस्य यादृशः कर्त्ता तादृगेव भवेद् भुवः । विशेषसाध्यतायां वा साध्यहीनं निदर्शनम् ॥ कर्त्तसामान्यसिद्धौ तु विशेषावगतिः कुतः । अपि च, सशरीरो वा जगन्ति रचयेदीश्वरः, शरीररहिता वा तदीयं शरी रं कार्यं नित्यं वा भवेत् सर्वथा ऽनुपपत्तिः- शस्य कर्तृत्वं दृश्यते नहि कस्य चित् । देहोऽयुत्पत्तिमानस्य देहत्वाच्चैत्रदेहवत् । कार्यमपीश्वरशरीरं तत्कर्तृकं वा स्यादीश्वरान्तरकर्तृकं वा तत्रस्वयं निजशरीरस्य निर्माणमिति साहसम् । कन्तरकृते तस्मिन्नीश्वरानन्त्यमापतेत् ॥ भवतु को दोष इति चेत् प्रमाणाभाव एव देोषः, एकस्यापि तावदीश्वरस्य साधने पर्याकुलतां गताः किं पुनरनन्तानाम्, किं च व्यापारेण वा कुलालादिरिव कार्याणि सृजेदीश्वर इच्छामात्रेण वा द्वयमपि दुर्घटम्, व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि । १७६ तदिच्छां चानुवर्त्तन्ते न जडाः परमाणवः ।। अपि च किं ? किमपि प्रयोजनमनुसंधाय जगत्सर्गे प्रवर्त्तते प्रजापतिः एवमेव वा, निष्प्रयोजनायां प्रवृत्ताव प्रेक्षापूर्व कारित्वादुन्मत्ततुल्यो ऽसौ भवेत, पूर्वो ऽपि नास्ति पक्षः । सर्वानन्दस्य रागादिरहितात्मनः । जगदारभमाणस्य न विद्मः किं प्रयोजनम् अनुकम्पया प्रवर्त्तत इति चेद् मैवम् सर्गात् पूर्वं हि निःशेषक्लेशसंस्पर्शवर्जिताः । नास्य मुक्ता इवात्मानेा भवन्ति करुणाऽस्पदम् ॥ परमकारुणिकानामपि दुःसह दुःखदहन दन्दह्यमानमनसो जन्तूनवलाकयतामुदेति दया न पुनरपवर्गदशावदेषा दुःखशून्यानिति । करुणाऽमृतसंसिक्तहृदयो वा जगत्सृजन् । कथं सृजति दुर्वारदुःखप्राग्भारदारुणम् ॥ अथ केवलं सुखोपभोगप्रायं जगत्स्रष्टुमेव न जानाति सृष्टमपि वा न चि. रमवतिष्ठते इत्युच्यते तदप्यचारु, निरतिशयस्वातन्त्र्य सीमनि वर्त्तमानस्य स्वेच्छानुवर्त्तिसकलपदार्थसार्थस्थितः परमेश्वरस्य किमसाध्यं नाम भवेत्, नानाऽऽत्मगतशुभाशुभकर्मकलापापेक्षः स्रष्टा प्रजापतिरिति चेत् कर्माण्येव तर्हि सृजन्तु जगन्ति किं प्रजापतिना, अथाचेतनानां चेतनानधिष्ठितानां स्रष्टृ
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy