________________
प्रमाणमकरणम्
त्वमघटमानमिति तेषामधिष्ठाता चेतनः कल्प्यते इति चेन्न, तदाश्रयाणामात्मना मेव चेतनत्वान् त एवाधिष्ठातारो भविष्यन्ति किमधिष्ठात्रन्तरेणेश्वरेण, तस्यापि तादृशा परकीय कर्मान्तरापेक्षा सङ्कोचितस्वातन्त्र्येण किमैश्वर्येण कार्यम्, राज्यमिव मन्त्रिपरवशमैश्वर्य कोपयुज्यते तादृग् यत्रापर निरपेक्षं रुच्यैव न रच्यते ऽभिमतम् अन्येनाप्युक्तम्
"
१७७
किमीश्वरतयेश्व। यदि न वर्त्तते स्वेच्छया ।
न हि प्रभवतां क्रियाविधिषु हेतुरन्विष्यते ॥ इति ।
अथ क्रीडार्था जगत्सर्गे भगवतः प्रवृत्तिरीदृशा च शुभाशुभरूपेण जगता सृष्टेन क्रीडति परमेश्वर इत्युच्यते तर्हि क्रीडासाध्य सुखरहितत्वेन सृष्टेः पूर्वमवाप्रसकलानन्दत्वं नाम तस्य रूपमवहीयते ।
न च क्रीडापि नि:शेषजनतातङ्ककारिणी । आयासबहुला चेयं कर्तुं युक्ता महात्मनः ॥ तस्मान्न जगतां नाथ ईश्वरः स्रष्टा संहर्ता ऽपि भवति । नस्य प्रियमाणेषु पूर्यन्ते जन्तुकर्मसु । सकृत् समस्तत्रैलेाक्य निर्मूलन मनोरथाः ॥ कमपरमपक्षे तु पुनः सृष्टिर्न युज्यते ।
न कर्मनिरपेक्ष हि सर्गवैचित्र्यसंभवः ॥
श्रथ ब्राह्मण मानेन संवत्सरशतनिष्ठामधितिष्ठति परमेष्ठिनि महेश्वरस्य संजिहीर्षा जायते तया तिरोहितस्वफलारम्भशक्तीनि कर्माणि संभवन्तीति संपद्यते सकलभुवनप्रलयः पुनश्च तात्रत्येव रात्रिप्राये काले व्यतीते सिसृक्षा भवति भगवतः तया ऽभिव्यक्तशक्तीनि कर्माणि कार्यमारस्यन्ते इति तदप्ययुक्तम् - उद्भवाभिभवौ तेषां स्यातां चेदोश्वरेच्छया । तर्हि सैवास्तु जगतां सर्गसंहारकारणम् ॥
किं कर्मभिः, एवमस्त्विति चेद् न, ईश्वरेच्छावशित्वपक्षे हि त्रयो दुरतिक्रमाः दोषाः तस्यैव तावन्महात्मनेो निष्करुणत्वमकारणमेव दारुणसर्गकारिणः, तथा वैदिकीनां विधिनिषेधचे | दनानामानर्थक्यम् ईश्वरेच्छात एव शुभा शुभफल भोग संभवात्, निर्मोक्षप्रसङ्गश्च मुक्ता अपि प्रलयसमये इव जीवाः पुनरीश्वरेच्छया संसरेयुः, तस्मान्नेश्वराधीनो जगतां सर्गः संहारो वा । इत्यनन्तर गीतेन नयेनेश्वर साधने ।
नानुमानस्य सामर्थ्यमुपमाने तु का कथा || आगमस्यापि नित्यस्य तत्परत्वमसांप्रतम् तत्प्रणीते तु विस्रम्भः कथं भवतु मादृशाम् ॥ किं चागमस्य प्रामाण्यं तत्प्रणीतत्व हेतुकम् । २३ न्या०