________________
१७८
न्यायमअर्याम्
तत्प्रामाण्याच तत्सिद्धिरित्योन्याश्रयं भवेत् ॥ अन्यथाऽनुपपत्त्या तु न शक्यो लब्धुमीश्वरः ।
न हि तद् दृश्यते कार्य तं विना यन्न सिद्धयति । तस्मात्सर्वसद्विषयप्रामाणानवगम्यमानस्वरूपत्वादभाव एवेश्वरस्येति सिद्धम्।
न च प्रसिद्धिमात्रेण युक्तमेतस्य कल्पनम् । निर्मूलत्वात्तथा चोक्तं प्रसिद्धिर्वटयक्षवत् ।। अत एव निरीक्ष्य दुर्घट जगतो जन्मविनाशडम्बरम । न कदा चिदनीदृशं जगत्कथितं नीतिरहस्यवेदिभिः ।।
ईश्वरसवसमर्थनम् । अत्र वदामः, यत्तावदिदमगादि नगादिनिर्माणनिपुणपुरुषपरिच्छेददक्षं प्रत्यक्षं न भवतीति तदेवमेव, प्रत्यक्षपूर्वकमनुमानमपि तेनैव पथा प्रतिष्ठित. मिति तदप्यास्ताम ।
सामान्यतोदृष्टं तु लिङ्गमीश्वरसत्तायामिदं ब्रूमहे पृथिव्यादि कार्य धर्मि तदुत्पत्तिप्रकारप्रयोजनाद्यभिज्ञकर्तृपूर्वकमिति साध्यो धर्मः कार्यत्वाद् घटादिवत्।
ईश्वरानुमानानुपपत्तिपरिहारौ । ननु कार्यत्वमसिद्धमित्युक्तम् , क एवमाचष्टे चार्वाकः शाक्यो मीमांसको वा।
चार्वाकस्तावद्वेदरचनाया रचनान्तरविलक्षणाया अपि कार्यत्वमभ्युपगच्छति यः स कथं पृथव्यादिरचनायगः कार्यत्वमपह्नवीत । ___ मीमांसको ऽपिन कार्यत्वमपह्रोतुमहति यत एवमाह येषामप्यनवगतोत्प. त्तीनां रूपमुलभ्यते तन्तुव्यतिषक्तजनितोऽयं पटस्तव्यतिषङ्गविमोचनात्तन्तुवि. नाशाद्वा नञ्चयतीति कल्प्यते इति एवमवयवसंयोगनिर्वय॑मानवपुषः क्षितिध. रादेरपि नाशसम्प्रत्ययः सम्भवत्येव, दृश्यते च क चिद्विनाशप्रतीतिः प्रावृषेण्यजलधरधारासारनिटुंठित एव पर्वतैकदेशे पर्वतस्य खण्डः पतित इति, वस्तुग. तयोश्च कार्यत्वविनाशित्वयोः समव्याप्तिकता वात्तिककृता ऽप्युक्तैव
तेन यत्राप्युभौ धमो व्याप्यव्यापकसम्मतो। तत्रापि व्याप्यतैव स्यादनं न व्यापिता मितेरिति(१)।
(१) लोकवार्तिके अनुमानग्रन्थे लो० ९ । अयमर्थ-यत्र हि न्यूनाधिकत्वेन ध्याप्यव्यापकभावेऽसंकीर्णः यथा गोत्वविषाणित्वयोः तत्र व्याप्यमेव गोत्वं विषाणि. त्वमनुमापयति न तु व्यापिका विषाणिता गोत्वम् , अतः समोदाहरणेऽपि व्याप्यतैव मितेरनुमानस्याङ्गं न व्यापकतेति । इति न्यायरत्नाकरे पार्थसारथिमिश्नाः ।