________________
प्रमाणपकरणम्
१७९ वदता, तस्माद्विनाशित्वेनापि कार्यत्वानुमानात्तन्मते ऽपि न कार्यत्वम. सिद्धम् । __ शाक्योऽपि कार्यत्वस्य कथमसिद्धतामभिदधीत येन नित्यो नाम पदार्थः प्रणयकेलिष्वपि न विषयते, तस्मात्सर्ववादिभिरप्रणोद्यं पृथिव्यादेः कार्यत्वम् , अथ वा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे यस्मिन् प्रत्यक्षत उपलभ्यमाने सर्वापलापलम्पटा अपि न के चन विप्रतिपत्त मुत्सहन्ते, तस्मान्नासिद्धो हेतुः ।
ननु कविनाभावितया यथाविधस्य सन्निवेशस्य शरावादिषु दर्शनं ताह. शमेव सन्निवेशमुपलभ्य क चिदनुपलभ्यमानकर्तृके कलशादौ कत्रनुमानमिति युक्तम् , अयं त्वन्य एव कलशादिसन्निवेशात्पर्वतादिसन्निवेशः, नात्र सन्निवेशसामान्यं किं चिदुपलभन्ते लौकिकाः, सन्निवेशशब्दमेव साधारणं प्रयुजते, न च वस्तुनोरत्यन्तभेदे सति शब्दसाधारणतामात्रेण तदनुमानमुपपद्यते, न हि पाण्डुतामात्रसाधारणत्वेन धूमादिवन्मुकुलरजोराशेरपि कृशानुरनुमातुं शक्यते इति तदुक्तम्
सिद्धं यागधिष्ठातृ भावाभावानुवृत्तिमत् । सन्निवेशादि तत्तस्माद्युक्तं यदनुमीयते ॥ वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्ता ऽनुमितिः पाण्डुद्रव्यादिव हुताशने ॥ इति । प्रमाणवा उच्यते, यादृगिति न बुद्धयामहे धूमो हि महानसे कुम्भदासीफत्कारमारुत सन्धुच्यमाणमन्दज्वलनजन्मा कृशप्राय प्रकृतिरुपलब्धः स यदि पर्वते प्रबलसमी. रणोल्लसितहुतवहप्लुष्यमाणमहामहीरुहस्कन्धेन्धनप्रभवो बहुलबहुलः खमण्ड. लमखिलमाक्रामन्नुपलभ्यते तत्किमिदानीमनलप्रमिति मा कार्षीत् , अथ विशे. परहितं धूममात्रमग्निमात्रेण व्याप्तमवगतमिति ततस्तदनुमानम् इहापि सन्निवे. शमात्रं कर्तृमात्रेण व्याप्तमिति ततो ऽपि तदनुमीयतम् ।
ननु सन्निवेशशब्दसाधारण्यमात्रमत्र न वस्तुसामान्यं किञ्चिदस्ति भिक्षो धूमेऽपि भवदर्शने किं वस्तुसामान्यमस्ति, मा भूद्वस्तुसामान्यमाकाशकालादि. व्यावृत्तिरूपं तु संव्यवहारकारणमस्त्येव, हन्त तर्हि प्रकृते ऽपि असन्निवेशव्यावृत्तिरूपं भवतु सामान्यमाकाशकालादिविलक्षणरूपत्वात् पृथिव्यादेः । __ ननु तत्र धूमो धूम इत्यनुवृत्तविकल्पबलेन कल्पितमपोहस्वभावं सामान्यमभ्युपगतम् , इहापि सन्निवेशविकल्पानुवृत्तः त्वत्कल्पितमपोहरूपमेव सामान्यमिष्यताम् , अपि च सकर्तृकत्वाभिमतेष्वपि संस्थानेषु न सर्वात्मना तुल्यत्वं प्रतीयते, न हि घटसंस्थानं पटसंस्थानं चतुः शालसंस्थानं च सुसहशमिति संस्थानसामान्यं तु पर्वतादावपि विद्यते एवेति सर्वथा याहगित्यवाचको प्रन्थः ।