________________
१८०
न्यायमञ्जर्याम्
यदपि व्यभिचारोद्भावनमकृष्टजातैः स्थावारादिभिरकारि तदपि न चारु, तेषां पक्षीकृतत्वात पक्षेण च व्यभिचारचेोदनायां सर्वानुमानोच्छेदप्रसङ्गः ।
ननु च पृथिव्यादेरुत्पत्तिकालस्य परोक्षत्वाकर्ता न दृश्यते इति तदनुपलब्ध्या तदसत्त्वनिश्चयानुपपत्तेः कामं संशयो ऽस्तु, वनस्पतिप्रभृतीनां तु प्रसवकालमद्यत्वे न वयमेव पश्यामः, न च यत्नतो ऽप्यन्वेषमाणाः कर्तारमेषामुपलभामहे, तस्मादसौ दृश्यानुपलब्धेनोस्त्येवेत्यवगच्छामः, अपि च येन येन वयं व्यभिचारमुद्भावयिष्यामः तं तं चेत्पक्षीकरिष्यति भवान्सुतरामनुमानच्छेदः सव्यभिचाराणामप्येवमनुमानत्वानपायात् ,
उच्यते, स्थावराणामुत्पत्तिप्रत्यक्षत्वे ऽपि कर्तरदृश्यत्वमेवाशरीरत्वनिश्च. यात , अशरीरस्य तर्हि तदुत्पत्तावव्याप्रियमाणत्वात्कर्तृत्वमपि कथमिति चेद् एतदग्रतो निर्णष्यते, अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः नाकृष्टजातवनस्पतीनामकर्तृकत्वमिति विपक्षता। ___ यत्तक्तं परिदृश्यमानक्षितिसलिलादिकारणकायत्वात्स्थावराणां किमदृश्यमानकर्तृकल्पनयेति चेत् तदपेशलम् , परलोकवादिभिरहश्यमानानां कर्मणामपि कारणत्वाभ्युपगमात् , बार्हस्पत्यानां तु तत्समर्थनमेव समाधिः,
अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटते इति कर्मणामदृश्यमानानामपि कारणत्वं कल्प्यते तत्र यद्येवमचेतनेभ्यः कारकेभ्यश्चेतनानधिष्ठितेभ्यः कार्योत्पादानुपपत्तेः कर्ता ऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् , तस्मात्स्थावराणामक.. र्तृकत्वाभावान विपक्षता इति न तैर्व्यभिचारः।
यदप्युक्तम् , येन येन व्यभिचार उद्भाव्यते स चेत्पनेन्तर्भावयिष्यते क इ. दानीमनुमानस्य नियम इत्येतदपि न साधु, यदि हि भवानिश्चिते विपक्षे वृत्ति. मुपदर्शयेत्कस्तं पक्षेऽन्तर्भावयेत् , न हि विप्रत्वे पुंस्त्वस्य नित्यतायां वा प्रमेय. त्वस्य व्यभिचारे चाद्यमाने वेधसा ऽपि विपक्षः पक्षीकतुं शक्यः, वादीच्छया वस्तुव्यवस्थाया अभावात् , इह तु स्थावरादो कत्रभावनिश्चयो नास्तीत्युक्तम् ।
ननु स्थावरेषु पक्षीकृतेष्वपि व्यभिचारो न निवर्त्तते एव न हि सपक्षविप. क्षव्यतिरेकेण तात्विकः पक्षो नाम कश्चिदस्ति वस्तुनो द्वैरूप्यानुपपत्तेः, वस्तुस्थित्या सकर्तृकाश्चेद्वनस्पतिप्रभृतयः सपक्षा एव ते न चेहि विपक्षा एव न राश्यन्तरं समस्तीति ।
उच्यते, पक्षाभावे सपक्षविपक्षवाचोयुक्तिरेव तावत्किमपेक्षा पक्षानुकूलो हि सपक्ष उच्यते तत्प्रतिकूलश्च विपक्ष इति । यद्येवं वक्तव्यं तर्हि को ऽयं पक्षो नामेति--
साध्यधर्मान्वितत्वेन द्वाभ्यामप्यवधारितः । सपक्षस्तदभावेन निश्चितस्य विपक्षता ॥