________________
प्रमाण प्रकरणम्
विमतो यत्र तु तयोस्तं पक्षं सम्प्रचक्ष्महे । वस्तुनो दुव्यात्मकत्वं तु नानुमन्यामहे वयम् || वादिबुद्धयनुसारेण स्थिति: पक्षस्य यद्यपि । तथा ऽपि व्यवहारो ऽस्ति वस्तुनस्तन्निबन्धनः ॥ संदिग्धे हि न्यायः प्रवर्त्तते नानुपलब्धे न निर्णीते इत्युक्तमेतत् । संदिद्यमान एव चार्थः पक्ष उच्यते किं चित्कालं तस्य पक्षत्वं यावन्निर्णयो नोत्पन्नः, तदुत्पादे तु नूनं सपक्षविपक्षयोरन्यतरत्रानुप्रवेदयत्यसौ, अतश्च पक्षावस्थायां तेन व्यभिचारोद्भावनमसमीचीनम्,
१८१
ननु निश्चित विपक्षवृत्तिरिव संदिग्धविपक्षवृत्तिरपि न हेतुरेव तदेवं वीरुदादिषु संदिग्धेऽपि कर्त्तरि सन्निवेशस्य दर्शनाद् अहेतुत्वात्, नैतत्सारम्, सदसत्पावकतया पर्वते संदिग्धे विपक्षे वर्त्तमानस्य धूमस्याहेतुत्वप्रसङ्गात्, सर्वएव च साध्यांशसंशयाद्विपक्षा एव जाता इति पक्षवृत्तयो हेतव इदानीं विपक्षगामिनो भवेयुरित्यनुमानाच्छेदः ।
अथ पक्षीकृते ऽपि धर्मिणि सदसत्साध्यधर्मतया सन्दिग्धे वर्त्तमानो धूमादिरन्यत्र व्याप्तिनिश्चयाद् गमक इष्यते तर्हि सदसत्कर्तृकतया संदिग्धे ऽपि वसुंधरावनस्पत्यादौ वर्त्तमानं कार्यत्वमन्यत्र व्याप्तिनिश्चयाद् गमकमिष्यताम्, विशेषो वा वक्तव्यः ।
अन्ये मन्यन्ते किमकृष्टजतिस्थावरादिव्यभिचारस्थानान्वेषणेन पृथिव्यादिभिरेवात्र व्यभिचारः, अस्य व्याप्तिग्रहणस्य प्रतीघातात्, व्याप्तिर्हि गृह्यमा मारा सकलसपक्षविपक्षकोडीकारेण गृह्यते, इत्थं च तस्यां गृह्ममाणायामेव यद्यत् सन्निवेशविशिष्टं तत्तद्बुद्धिमत्कर्त्तृकमित्यस्मिन्नेवावसरे सन्निवेशवन्तो Sपि कत्त शून्यतया शैलादयश्चेतसि स्फुरन्ति यथा कृतकत्वेन वह्नेरनुष्णताऽनुमाने यद्यत्कृतकं तत्तदनुष्णमिति व्याप्तिपरिच्छेदवेलायामेव वह्निरुष्णो Sकृतक इति हृदयपथमवतरति, तत्र ह्यतिव्याप्तौ गृह्यमाणायां ततो हेतोः षण्ढादिव पुत्रजननमघटमानमेव वन्ध्यानुमानमिति ।
"
तदेतदनुपपन्नम् -- विशेषोल्ले खरहित सामान्यमात्रप्रतिस्तिस्य व्याप्तिपरिच्छेदस्यानुमानलक्षणे निर्णीतत्वात्, अग्न्यनुष्णताऽनुमाने हि न व्याप्तिप्रहणप्रतिघातादप्रामाण्यमपि तु प्रत्यक्षविरोधादित्युक्तमेतत् अपि चायं पृथिव्यादौ कर्त्रनुमाननिरासप्रकारः शब्दाद्युपलब्धयः करणपूर्विकाः क्रियात्वाच् छिदिकियावदित्यत्र श्रोत्रादिकरणानुमाने ऽपि समानः, प्रतिबन्धावधारणवेलायामेव करणशून्यानां शब्दाद्युपलब्धिक्रियाणामवधारणात्ताभिरेव व्यभिचारात्पक्षेण च पृथिव्यादिना व्यभिचारचोदनमत्यन्तमलौकिकम्
ननु वस्तुस्थित्या पर्वतादयो ऽपि विपक्षा एव स्वया तु तेषां पक्ष इति नाम
"
-