________________
१८२
न्यायमञ्जर्याम् कृतं न च त्वदिच्छया वस्तुस्थितिविपरिवर्तते । __नन्वेवं शब्दाद्यपलब्धयो ऽपि वस्तुस्थित्या विपक्षा एव तासामपि पक्ष इति नामकरणमेव स्यात् , न तासां करणभावनिश्चयानुत्पादान्न विपक्षत्वम् , पर्वतादावपि कभावनिश्चयानुत्पादान्न विपक्षत्वम्, तेषु कर्त्ता नोपलभ्यते इति चेच शब्दाधुपलब्धिकारणमपि नोपलभ्यते एव, कारणमहश्यमानत्वादेव नोपलभ्यते न नास्तित्वादिति चेत् को ऽप्यदृश्यत्वादेव नोपलभ्यते न नास्तित्वात , अनुमानात्करणमुपलभ्यते तद्व्यतिरेकेण क्रियाऽनुपपत्तरिति चेत् कर्ता ऽप्यनुमानादुपलप्स्यते कर्तारमन्तरेण कार्यानुपपत्तेः ।
तेनानुमानगम्यत्वान्न कर्तुर्नास्तिताप्रहः । तदभावाद्विपक्षत्वं क्षित्यादेरपि दुर्भणम् ॥ लिङ्गात्पूर्व तु सन्देहो दहने ऽपि न वार्यते । तथा सति प्रपद्येत धूमो ऽप्यननुमानताम् ।। अथास्य लिङ्गाभासत्वं तित्यादो कत्रदर्शनात् । धूमे ऽपि लिङ्गाभासत्वं तत्र देशे ऽग्न्यदर्शनात् ।। ननु तं देशमासाद्य गृह्यते धूमलान्छनः । अनयैव धिया साधो चरस्व शरदां शतम् ॥ यत्पश्चादर्शनं तेन किं लिङ्गस्य प्रमाणता ।
अनथित्वाददृष्टे वा कृशानौ किं करिष्यसि । तस्मात्सर्वथा नायमनैकान्तिको हेतुः ।
यदपि विशेषविरुद्धत्वमस्य प्रतिपादितं तदप्यसमीक्षिताभिधानम् , विशेषविरुद्धस्य हेत्वाभासस्याभावात् , अभ्युपगमे वा सर्वानुमानोच्छेदप्रसङ्गात् , श्रोत्राद्यनुमाने ऽपि यथोदाहृते शक्यमेवमभिधातुम् , याहगेव लवनक्रियायां दानादि करणं काठिन्यादिधमकमवगत ताहगेव श्रोत्रादि स्यात्तद्विलक्षणकरणसाध्यतायां तु साध्यविकलो दृष्टान्तः, छेदनादिक्रियाणामतीन्द्रियकरणकार्यत्वादर्शनादिति ।
अथ क्रियामात्रं करणमात्रेण व्याप्तमवगतमिति तावन्मात्रमनुमापयति तदिहापि सन्निवेशमात्रमधिष्ठातृमात्रेण व्याप्तमुपलब्धमिति तावन्मात्रमेवानुमापयतु विशेषाणां तु न तल्लिङ्गमस्ति यन्न बाधकम् , अनित्यः, शब्दः कृतकत्वादि. स्ययमपि श्रावणत्वादि शब्दस्य विशेषजातं बाधतएव, धूमो ऽपि पर्वताग्निवि. शेषान् कांश्चिन्महानसाग्नावदृष्टानपहन्त्येव, तस्याद्यथानिर्दिष्टसाध्यविपर्ययसा धनमेव विरुद्धो हेतुर्न हि विशेषविपर्ययावहः, प्रकृतहेतुश्च साध्यविपर्ययस्याकतूंपूर्वकस्य न साधकः अश्वो ऽयं विषाणित्वादितिवत्, तस्मान्न विरुद्धः, नापि कालात्ययापदिष्टः प्रत्यक्षागमयाबोधकयोरदर्शनातू, प्रत्युतागममनुप्राहकमिहो.