________________
प्रमाणप्रकरणम्
१८३ दाहरिष्यामः, नापि सत्प्रतिक्षो ऽयं हेतुः संशयबीजस्य विशेषाग्रहणादेरिह हेतुत्वेनानुपादानात, नाप्ययमप्रयोजको हेतुः यथा परमाणूनामनित्यत्वे साध्ये मूतत्वमभिधास्यते न हि मूर्त्तत्वप्रयुक्तमनित्यत्वमिह तु कार्यत्वप्रयुक्तमेव सकर्तृकत्वं तत्र तत्रोपलब्धमित्यत एवानुमानविरोधस्येष्टविघातकृतश्च न कश्चिदि. हावसरः, प्रयोजके हेतौ प्रयुक्त तथाविधपांसुप्रक्षेपप्रयोगानवकाशात् तस्मात्परोदीरिताशेषदोषविकलकार्यानुमानमहिम्ना नूनमीश्वरः कल्पनीयः सकललोकसाक्षिकमनुमानप्रामाण्यमपीक्षणीयम, अनुमानप्रामाण्यरक्षणे च कृत एव परि. करबन्धः प्रागिति सिद्ध एवेश्वरः, अन्यदपि तदनुमानमन्यैरुक्तम् , महाभूता. दिव्यक्तं चेतनाधिष्ठितं सत्सुखदुःखे जनयति रूपादिमत्त्वात्तूर्यादिवत्, तथा पृथिव्यादीनि भूतानि चेतनाधिष्ठितानि सन्ति धारणादिक्रियां कुर्वन्ति युग्यादिवदिति, अत्रापि दोषाः पूर्ववदेव परिहर्त्तव्याः ।।
यत्पुनरवादि 'कर्तृसामान्यसिद्धौ वा विशेषावगतिः कुत' इति तत्र के चि. दागमाद्विशेषप्रतिपत्तिमाहुः
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति संपतत्रैवाभूमी जनयन् देव एक(१)इति । तथा
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति सर्व न हि तस्य वेत्ता तमाहुरग्रयं पुरुषं महान्तमिति(२)॥ श्रतौ पठ्यते, ततः सर्वस्य कर्ता सर्वज्ञ ईश्वरो ज्ञाप्यते, न च कायें एवार्थे वेदः प्रमाणमिति मन्त्रार्थवादानामतत्परत्वमभिधातुमुचितं कायें इव सिद्ध ऽप्यर्थे वेदप्रामाण्यस्य वक्ष्यमाणत्वात् , न चेतरेतराश्रयम् आगमैकशरणत्वा. भावादीश्वरसिद्धः । __ अन्ये त्वन्वयव्यतिरेकिहेतुमूलकेवलव्यतिरेकिबलेन विशेषसिद्धिमभिः दधति, देहादिव्यतिरिक्तात्मकल्पनमिव सुखदुःखादिगतेन कार्यत्वेन वर्णयिप्यते पृथिव्यादिकार्यमस्मदादिविलक्षणसर्वज्ञककर्तृकम् अस्मदादिषु बाधको. त्पत्तो सत्यां कार्यत्वादिति । ___ अपरे पक्षधर्मताबलादेव विशेषलाभमभ्युपगच्छन्ति न हीदृशं परिदृश्यमा. नमनेकरूपमपरिमितमनन्तप्राणिगतविचित्रसुखदुःख लाधनं भुवनादि कार्यमनतिशयेन पुंसा कर्तुं शक्यमिति, यथा चन्दनधूममितरधूमविसदृशमवलोक्य चन्दनएव वह्निरनुमीयते तथा विलक्षणात्कायोद्विलक्षण एव कत्तो ऽनुमा
(१) नारायणोपनिषदि खण्डः ३ मन्त्रः २ । (२) श्वेताश्वतरोपनिषदि म. ३ मन्त्रः १९ ।