________________
१८४
न्यायमअर्याम्
यते, यथा सुचेलकेभ्य इव तत्कुशलः कुविन्दः, यथा च कुजालः सकलकलशादिकार्यकलापोत्पत्तिसंविधानप्रयाजनाद्यभिज्ञो भवंस्तस्य कार्यचक्रस्य कर्त्ता तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहार संविधानं सप्रयो बहुशाखं जानन्नेव स्रष्टा भवितुमहति महेश्वरस्तस्मात्सर्वज्ञः ।
अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञस्तदपेक्षया सर्वज्ञः एवं सकल क्षेत्रज्ञकर्मविनियोगेषु प्रभवन्नीश्वरस्तदपेक्षया सर्वशः, तथा चाह व्यासः (१) —
द्वाविमौ पुरुषौ लोके. दरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभव्यय ईश्वरः ॥ मन्त्रश्च तदर्थानुवादी पठ्यते (२) ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरेकः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति ॥ इति । अतश्च सर्वज्ञ ईश्वरः ।
पुंसाम सर्ववित्त्वं हि रागादिमलबन्धनम् । न च रागादिभिः स्पृष्टो भगवानिति सर्ववित् ॥ इष्टानिष्टार्थ संभोगप्रभवाः खलु देहिनाम् । रागादयः कथं ते स्युर्नित्यानन्दात्मके शिवे || मिथ्याज्ञानमूलाश्च रागादयो दोषास्ते कथं नित्यनिर्मलज्ञानवतीश्वरे भवेयुः ।
ईश्वरज्ञानादेर्नित्यत्वम् ।
नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहार विरामप्रसङ्गात्, प्रलयवेलायां तहिं कुतस्तन्नित्यत्वकल्पना इति चेन्मैवम् आप्रलयात्सिद्धे नित्यत्वे तदा विनाशकारणाभावादस्यात्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति, पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यत्वं तज्ज्ञानानाम्, एवं च तदतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयं न भिन्नं क्रमयौगपद्यविकल्पानुपपत्तेः क्रमाश्रयणे क चिदज्ञातृत्वं स्यादिति व्यवहारलोपः, यौगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः, प्रत्यक्षसाधयञ्च तज्ज्ञानं प्रत्यक्ष मुच्यते न पुनरिन्द्रियार्थसन्निकषात्पन्नत्वमस्यास्ति अजनकानामेवार्थानां सवितृप्रकाशेनेव ग्रहणात् ज्ञानवदन्ये ऽप्यात्मगुणा ये ऽस्य
( १ ) भगवद्गीतायाम् । अ. १५ श्लो. १६ ।
( २ ) मुण्डकोपनिषदि मु०३ मन्त्र १ ।