________________
प्रमाणप्रकरणम्
१८५
सन्ति ते नित्या एव मनः संयोगानपेक्षजन्मत्वात् ।
दुःखद्वेषास्तस्य तावन्न सन्त्येव, भावनाख्येन संस्कारेणापि न प्रयोजनम् , सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात् , अत एव न तस्यानुमानिकं ज्ञानमि. ज्यते, धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद्भवन्न वार्यते तस्य च फलं परमार्थनिष्पत्तिरेव, सुखं त्वस्य नित्यमेव नित्यानन्दत्वेनागमात्प्रतीते, असुखितस्य चैवंविधकार्यारम्भयोग्यताऽभावात् ।
ननु ज्ञानानन्दवदिच्छाऽपि नित्या चेदीश्वरस्य तर्हि सर्वदा तदिच्छासम्भवात्सर्वदा जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः, सर्गेच्छानित्यत्वाच्च संहारो न प्राप्नोति, संहारेच्छाया अपि नित्यत्वाभ्युपगमेन नक्तदिनं प्रलयप्रबन्धो न विरमदेव जगतोमिति, नैष दोषः, अनात्ममनःसंयोगजत्वादिच्छा स्वरूपमात्रेण नित्या ऽपि कदाचित्सर्गेण कदाचित्संहारेण वा विषयेणानुरज्यते सर्गसंहार. योरन्तराले तु जगतः स्थित्यवस्थायामस्मात्कर्मण इदमस्य सम्पद्यतामितीच्छा भवति प्रजापतेः, प्रयत्नस्तस्य सङ्कल्पविशेषात्मक एव, तथा चागमः, सत्यकामः सत्यसङ्कल्प इति, काम इतीच्छा उच्यते सङ्कल्प इति प्रयत्नः, तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधमाः सन्तीश्वरे, चत्वारस्तु दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम्, आह च पतञ्जलिः, 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर' इति, सेोऽयमा. गमादनुमानात्पक्षधर्मता वा विशेषलाभ इति स्थितम् ।
ईश्वरस्याशरीरत्वम् । यत्पुनर्विकल्पितं सशरीर ईश्वरः सृजति जगद् अशरीरो वेति तत्राशरीरस्यैव स्रष्टत्वमस्याभ्युपगच्छामः ।
ननु क्रियावेशनिबन्धनं कर्तृत्वं न पारिभाषिकं तदशरीरस्य क्रियाविरहा. कथं भवेतू, कस्य च कुत्राशरीरस्य कर्तृत्वं दृष्मिति, उच्यते, ज्ञानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमाचक्षते तच्चेश्वरे विद्यते एवेत्युक्तमेतत् , स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम् इच्छामात्रेण च तस्य कर्तृत्वादनेकव्यापारनिर्वर्तनापात्तदुर्वहक्लेशकालुष्यविकल्पो ऽपि प्रत्युक्तः । नन्वत्रोक्तम्
कुलालवच्च नैतस्य व्यापारो यदि कल्प्यते ।
अचेतनः कथं भावस्तदिच्छामनुवर्तते ॥ इति ।। अस्माभिरप्युक्तमेव
यथा ह्यचेतनः काय आत्मेच्छामनुवर्त्तते ।
तदिच्छामनुवत्स्यन्ते तथैव परमाणवः ।। २४ न्या०