________________
१८६
न्यायमअर्याम्
यस्तु प्रयोजनविकल्पः किमर्थ सृजति जगन्ति भगवानिति सो ऽपि न पेश लः, स्वभाव एवैष भगवतो यत्कदा चित्सृजति कदा चिच्चसंहरति विश्वमिति, कथं पुनर्नियतकाल एषो ऽस्य स्वभाव इति चेद् आदित्यं पश्यतु देवानां प्रियः यो नियतकालमुदेत्यस्तमेति च, प्राणिकर्मसापेक्षमेतद्विवस्वतो रूपमिति चेद् ईश्वरे ऽपि तुल्यः समाधिः ।।
क्रीडार्थे ऽपि जगत्सर्गे न होयेत क्रियार्थता ।
प्रवर्त्तमाना दृश्यन्ते न हि क्रीडासु दुःखिताः ॥ अथ वा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः ।
नन्वत्र चोदितम् अनुपपन्नं तु अनादित्वात्संसारस्य शुभाशुभसंस्कारानुविद्धा एवात्मानस्ते च धर्माधर्मनिगडसंवृतत्वादपवर्गपुरद्वारप्रवेशमलभमानाः कथं नानुकम्प्याः , अनुपभुक्तफलानां कर्मणां न प्रक्षयः सर्गमन्तरेण च तत्फल भोगाय नरकादिसष्टिमारभते दयालुरेव भगवान , उपभोगप्रबन्धेन परिश्रान्तानामन्तरान्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत्कृपा. निबन्धनमेव ।
ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम् अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धासम्भवादिति चोदितम, न युक्तमेतत्, ईश्वरेच्छाप्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् , तदिच्छाप्रेरितानि कर्माणि फलमादधति तदिच्छाप्रतिबद्धानि च तत्रोदासते, कस्मादेवमिति चेत, अचेतनानां चेतनान. धिष्ठितानां स्वकार्यकरणानुपलब्धेः ।
ननु तेषामेव कर्मणां कर्त्तार आत्मानश्चेतना अधिष्ठातारो भविष्यन्ति, यथा ऽऽह भट्टः(१)कर्मभिः सर्वजीवानां तत्सिद्धे सिद्धसाधनमिति, नैतदेवम् , नेते अधिष्ठातारो भवितुमर्हन्ति, बहुत्वाद्विरु द्धाभिप्रायत्वाच्च, तथा ह्येक एव कश्चित्स्थावरादिविशेषो राजादिविशेषो वा प्राणिकोटीनामनेकविधसुखदुःखोपभोगस्य हेतुः स तैबहुभिरव्यवस्थिताभिप्रायः कथमारभ्येत तेषामेकत्र संमा. नाभावात, शठपरिषदो ऽपि क चिदेव सकलधारणोपकारिणि कार्य भवत्यै. कमत्यम् न सर्वत्र महाप्रासादाघारम्भे बहूनां तक्षादीनामकस्थपत्याशयानुवतित्वं दृश्यते, पिपीलिकानामपि मृत्कूटकरणे तुल्यः कश्चिदुपकारः प्रवर्तकः
(१) लोकवार्तिके सम्बन्धाक्षेपे श्लो• ७५ । यदि हतुत्वमात्रमधिष्ठातृत्वं तदा सवां जीवानां कर्मभिरिभूतैरस्त्येव सर्व कार्यजासं प्रति हेतुळ कर्मनिमित्तं हि सर्व कार्य सिद्धं च पृथिव्यादेरपि खननपूरादिभिः कथं चिनाशोत्पादवत्त्वमिति सिद्धस्यौव साधनमिति अतो नानुमानेन कृत्स्नस्यै केन सर्वज्ञेन निष्पत्तिः युगपत्सेदुधुमहतीति भावः ।