________________
प्रमाणप्रकरणम्
१८७
स्थपतिवदेकाशयानुवर्तित्वं वा कल्प्यम्, इह तु तत्स्थावरं शरीरं केषां चिदु. पकारकारणमितरेषामपि भूयसामपकारकारणमिति कथं तैः संभूय सृज्यते अनधिष्ठितानां त्वचेतनानामारम्भकत्वमयुक्तमेव तस्मादवश्यमेकस्तेषां कर्मणामधिष्ठाता कल्पनीयः, यदिच्छामन्तरेण भवन्त्यपि कर्माणि न फलजन्मने प्रभवन्ति । _अत एवैक ईश्वर इष्यते न द्वौ बहवो वा भिन्नाभिप्रायतया लोकानुग्रहो. पघातवैशसप्रङ्गात्, इच्छाविसंवादसंभवेन च ततः कस्य चित्संकल्पविघातद्वा. रकानैश्वर्यप्रसङ्गाद् इत्येक एवेश्वरः, तदिच्छाया कर्माणि कार्येषु प्रवर्तन्ते इत्युपपन्नः सर्गः, तदिच्छाप्रतिबन्धास्तिमितशक्तीनि कर्माण्युदासते इत्युपपन्नः प्रलयः, एवं च यदुक्तं
तस्मादद्यवदेवात्र सर्गप्रलयकल्पना ।
समस्तक्षयजन्मभ्यां न सिद्धत्यप्रमाणिका(१)॥ __ इत्येतदपि न सांप्रतम् , तिष्ठतु वा सर्गप्रलयकालः अद्यत्वेऽपि यथोक्तनयेन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरो ऽभ्युपगन्तव्यः इतरथा सर्वव्यवहारविप्रलोपः, तदुक्तम्
अज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वेति(२)॥ ___ नन्वेवं तहि ईश्वरेच्छैव भवतु की संही च किं कर्मभिः, मैवम् कर्ममिविना जगद्वैचित्र्यानुपपत्तेः कर्मनरपेक्ष्यपक्षे ऽपि त्रयो दोषा दर्शिता एवेश्वरस्य निर्दयकर्मचोदनानर्थक्यमनिर्मोक्षप्रसङ्गश्चेति, तस्मात्कर्मणामेव नियोजने स्वातन्त्र्यमीश्वरस्य न तन्निरपेक्षम्, किं तादृशैश्वर्येण प्रयोजनमिति चेन्न, न प्रयोजनानुवत्ति प्रमाणं भवितुमर्हति, किं वा भगवतः कर्मापेक्षिणो ऽपि न प्रभुत्वमित्यलं कुतर्कलवलिप्तमुखनास्तिकालापपरिमर्दैन ।
तस्मात्कुताकिकोद्गीतदूषणाभासवारणात् । सिद्धस्त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥ ये त्वीश्वरं निरपवाददृढप्रमाणसिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः ।
(१) लोकवार्तिके सम्बन्धाक्षेपे क्लो० ११३ । सृष्टिप्रलयवादस्य दैवप्रभाव. कथनार्थत्वं तथाहि समस्तपुरुषकाराभावेऽपि सृष्टिकाले दैववशेन सर्व प्रवर्तते प्रलय. काले च सत्यपि पुरुषकारे दैवोपरमादेवोपरमति तस्माधर्मानुष्ठान एव यतितव्यमि. स्येवं परं सृष्टिप्रलयवचनम् इति पू संदर्भार्थः तस्मादित्यनेन परामृश्यते इति ध्येयम् ।
(२) महाभारते वनपर्वणि म० ३० श्लो० २८ ।