________________
१८
न्यायमभर्याम्
पापाय तैः सह कथा ऽपि वितन्यमाना जायेत नूनमिति युक्तमतो विरन्तुम् । यस्येच्छयैव भुवनानि समुद्भवन्ति तिष्ठन्ति यान्ति च पुनविलयं युगान्ते । तस्मै समस्तफलभोगनिबन्धनाय । नित्यप्रबुद्धमुदिताय नमः शिवाय ॥
शब्दनित्यमीमांसकाभिमतनिरूणम् । ननु त्रैलोक्यनिर्माणनिपुणे परमेश्वरे । सिद्धेऽपि तत्प्रणीतत्वं न वेदस्यावकल्पते ।। पदे शब्दार्थसम्बन्धे वेदस्य रचनासु वा । कर्तृत्वमस्याशङ्कयेत तच्च सर्वत्र दुर्वचम् । वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते ॥ वर्णानां चाविनाशित्वात्कथमीश्वरकार्यता। सम्बन्धो ऽपि न तत्कार्यः स हि शक्तिस्वभावकः । शब्दे. वाचकशक्तिश्च नित्यैवामाविवोष्णता। रचना अपि वैदिक्यो नेताः पुरुषनिर्मिताः॥ कविप्रणीतकाव्यादिरचनाभ्यो विलक्षणाः । एवं च वेदे स्वातन्त्र्यमीश्वरस्य न कुत्र चित् ।। कामं तु पर्वतानेष विदधातु भिनत्तु वा। स्वतः प्रामाण्यसिद्धौ तु वेदे वक्त्रनपेक्षताम् ॥ वदामो न तु सर्वत्र पुरुषद्वेषिणो वयम् । अनपेक्षत्वमेवातो घेदप्रामाण्यकारणम् ॥ युक्तं वक्तापि वेदस्य कुर्वन्नपि करोतु किम् । कथं पुनरमी वर्णः श्रुतमात्रतिरोहिताः॥
निस्या भवन्तु को ऽयं वा शब्दस्वातन्त्र्यदोहदः ॥ उच्यते
शन्दनित्यत्वाक्षेपः । शब्दस्य न यनित्यत्वे युक्तिः स्फुटति का चन। .
प्रत्यक्षमापत्तिश्च नित्यतां त्वधिगच्छतः ।। तथाहि, अनित्यहेतव इमे किल कथ्यन्ते प्रयत्नानन्तरमुपलब्धेः कार्य: शब्द इति, कार्यत्वानित्यत्वयोः परस्पराविनाभावादेकतरसिद्धावन्यतरसिद्धि