SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १८९ र्भवत्येवेति क चित्किञ्चित्साधनमुच्यते प्रयत्नप्रेरित कौष्ठ्य मारुत संयोगविभागानन्तरमुपलभ्यमानः शब्दस्तत्कार्यः एवेति गम्यते, उच्चारणादूर्ध्वमनुपलब्धेः अनित्यः शब्दः न ह्येनमुश्चरितं मुहूर्त्त मप्युपलभामहे तस्माद्विनष्ट इत्यवग च्छामः, करोतिशब्दव्यपदेशाच्च कार्यः शब्दः शब्दं कुरु शब्द मा कार्षीरिति व्यवहर्त्तारः प्रयुञ्जते ते नूनमवगच्छन्ति कार्यः शब्द इति, नानादेशेषु च युगपदुपलम्भात्, तेषु तेषु देशेषु क्रियमाणानामुपपद्यते ऽनेकदेशसम्बन्ध इति, शब्दान्तरविकार्यत्वाच्च नित्यः शब्दः दध्यत्रेति इकार एव यकारीभवति सादृश्यात् स्मृतेश्चावगम्यते, विकार्यत्वाच्च द्राक्षेक्षुरसादिवदनित्यत्वमस्येति, कारणवृद्ध्या च वर्धमानत्वात्, बहुभिर्महाप्रयत्नैरुच्चार्यमाणो महान् गोशब्द उपलभ्यते स्पैरल्पप्रयत्नैरुच्चार्यमाणो ऽल्प इत्येतच्च तन्तुवृद्ध्या वर्धमानः पटः ज्ञातः सिद्धे नित्यत्वे प्रयत्नानन्तरमुपलम्भादभिव्यक्ति: प्रयत्नकार्या शब्दस्य नोत्पत्तिरिति गम्यते, तदेवं व्यङ्गये ऽपि प्रयत्नानन्तरमुपलम्भसम्भवादनैकान्ति कत्वम्, अभिव्यञ्जकानां च पवनसंयोगविभागानामचिरस्थायित्वान्न चिरमु चारणादूर्ध्वमुपलभ्यते शब्दः, प्रयोगाभिप्रायश्च करोतिशब्दव्यपदेशो ऽस्य भविष्यति गोमयानि कुरु काष्ठानि कुर्वितिवत् तस्मात्सा ऽपि नैकान्तिकः, नानादेशेषु युगपदुपलम्भनमेकस्य स्थिरस्यापि शब्दस्य विवस्वत इव सेत्स्यति, विकार्यत्वं त्वसिद्धमेव शब्दान्तरत्वात्, दधिशब्द इकारान्तः संहिताव्यतिरिक्तविषयवृत्तिः यकारस्त्वयमन्य एवाचि परतः संहिताविषये प्रयुज्यमानः, न पुनरिकार एवायं यकारीभूतः क्षीरमिव दधिभूतमुपलभ्यते, न हीचुयशास्तालव्या इति स्थानसादृश्यमात्रेण तद्विकारत्ववर्णनमुचितम् अप्रकृतिविकारयेोरपि नयनात्पलपल्लवयोः सादृश्यदर्शनात, इको यणचीति पाणिनिस्मृतेरपि नायमर्थः इकारो यकारीभवति क्षीरमिव दधोभवति किं त्वस्मिन्विषये ऽयं वर्णः प्रयोक्तव्ये ऽस्मिन्नयमिति सूत्रार्थः सिद्धे शब्दे ऽर्थे सम्बन्धे च तच्छास्त्रं प्रवृतमिति, अपि च क्षीरं दधित्वमुपैति न तु दधि क्षीरताम् इह तु यकारो ऽपि कचिदिकारतामुपैति विध्यतीति संप्रसारणे सति, तस्मादसिद्ध एव वर्णानां प्रकृतिविकारभावः नापि कारणवृद्धया वर्धते शब्दः बलवता ऽप्युच्चार्यमाणानि बहुभिश्व तावन्त्येवाक्षराणि ध्वनय एव तथा तत्र प्रवृद्धा उपलभ्यन्ते न वर्णा इति । प्रमाण प्रकरणम् शब्दनित्यत्वसाधनार्थापत्तिप्रमाणोपन्यासः । तस्मादनित्यतासिद्धिनैवंप्रायैरसाधनैः । शब्दस्य नित्यत्तायां तु सैषा ऽर्थापत्तिरुच्यते ॥ शब्दस्य कारणं तावदर्थगत्यर्थमिष्यते ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy