________________
न्यायमञ्जर्याम्
न चोच्चारितनष्टोऽयमथ गमयितुं क्षमः ॥ सर्वेषामविवादो ऽत्र शब्दार्थव्यवहारिणाम् । यदि विज्ञातसम्बन्धः शब्दा नार्थस्य वाचकः ॥ वेद्यमानः स सम्बन्धः स्थविरव्यवहारतः । द्राघीयसा न कालेन विना शक्येत वेदितुम् ॥
"
तथा हि गां शुक्कामानयेत्येक वृद्धप्रयुक्तशब्दश्रवणे सति चेष्टमानमितरं वृद्धमवलेोकयन् बालस्तटस्थः तस्यार्थप्रतीतिं तावत्कल्पयति आत्मनि तत्पूर्वि - कायाश्चेष्टाया दृष्टत्वात् प्रमाणान्तरासन्निधानादेतद्वद्वप्रयुक्तशब्दसमनन्तरं च प्रवृत्तेः तत एव शब्दात्किमप्यनेन प्रतिपन्नमिति मन्यते, ततः क्षरणान्तरे तमर्थं तेन वृद्धेनानीयमानमुपलभमान एव बुध्यते अयमर्थो ऽमुतः शब्दादनेनावगत इति, स चार्थो ऽनेकगुणक्रियाजातिव्यक्तयादिरूपसंकुल उपलभ्यते, शब्दो ऽप्यनेक पदकदम्बकात्मा श्रुतः तत्कतमस्य वाक्यांशस्य कतमो ऽर्थांशा वाच्य इत्यवापाद्वापयेोगेन बहुकृत्वः शृण्वन् गुणक्रियादिपरिहारेण गोत्वसामान्यमस्मन्मते त्वन्मते वा तद्वन्मात्रं गोशब्दस्याभिधेयं निर्धारयतीति । एवं दीर्घाध्वसापेक्षसंबन्धाधिगमावधि ।
११०
शब्दस्य जीवितं सिद्धमिति नाशुविनाशिता ॥
भवतु वा नश्वरस्यापि शब्दस्य सम्बन्धग्रहणं तथा ऽपि तस्मिन् गृहीत - सम्बन्धे शब्दे विनष्टे सति कथमनवगतसम्बन्धादभिनवादिदानीमंन्यस्माच्छब्दादर्थप्रतिपत्तिः ।
अन्यस्मिन् जातसम्बन्धे यद्यन्यो वाचको भवेत् । वाचकाः सर्वशब्दाः स्युरेकस्मिन् जातसंगतौ ॥
न च वक्ता व्यवहरमाणः तदैव शब्दं चोश्चारयति सम्बन्धं करोति चैतं च व्युत्पादयति परं च व्यवहारयतीति, न हि युगपदिमाः क्रियाः भवितुमर्हन्ति एवमदर्शनात्, अथादौ सम्बन्धग्रहणे वृत्ते तस्मिन्विनष्ठे ऽपि गोशब्दः स एवेति, न च भूयोऽवयवसामान्ययेोगरूपसादृश्यं वर्णानामनवयवानामुपपद्यते अभिनवस्य शब्दस्य स्वयमर्थवत्ताऽनवधारणात्कथमयममुतः श्रोता प्रतिपद्येतेति शङ्कमानो वक्ता कथं प्रयोगं कुर्यात्, अथ सो ऽप्यर्थवत्सदृशस्तमसौ प्रयुङ्क्ते तस्याप्यन्यसादृश्यादेवार्थवत्तेति जगत्सर्गकालकृतस्य मूलभूतस्यार्थवतः शब्दस्य स्मरणं तन्मूलत्वाद् व्यवहारस्य न चैवमस्ति, न च ततः प्रभृत्यद्य यावत्सादृश्यमनुवर्त्तते तत्सदृशसदृशकल्पनायां मूलसादृश्यविनाशात्, विशेषतस्तु शब्दानाम् ।
भिन्नर्वक्तृमुखस्थानप्रयत्न करणादिभिः । ननिर्वहति सादृश्यं शब्दानां दूरवर्त्तिनाम् ||