________________
प्रमाणप्रकरणम् . सादृश्यजनितत्वे च मिथ्यैवार्थगतिर्भवेत् ।
धूमानुकारिनीहारजन्यज्वलनबुद्धिवत् ।। तस्मात्सादृश्यनिबन्धनार्थप्रतीत्यनुपपत्तेः गोशब्द एव स्थायीत्यभ्युपगमनीयम्,
ननु यथा धमव्यक्तिभेदे ऽपि धूमत्वमतिमवलम्ब्य सम्बन्धग्रहणादि. व्यवहारनिवहनिर्वहणमेवमिह गकारादिवर्णव्यक्तिभेदे ऽपि सामान्यनिबन्धनस्तनिर्वाहः करिष्यते इति ।
मैवं तत्र हि धमत्वसामान्यं विद्यते ध्रुवम् । शब्दत्वं व्यभिचार्यत्र गोशब्दत्वं तु दुर्घटम् ॥ भिन्नरयुगपत्कालैरसंसृष्टेविनश्वरः । वर्णैर्घटयितुं शक्यो गोशब्दावयवी कथम् ।। अनारब्धे च गोशब्दे गोशब्दत्वं क वर्त्तताम् ।
पटत्वं नाम सामान्यं न हि तन्तुषु वर्तते ॥ ननु मा भूद्गोशब्दत्वं सामान्यं भिन्नाकारगकारादिव्यक्तिवृत्तिमिरेव ग. त्वादिजातिभिः कार्य पूर्वोक्तमुपपद्यते, एतदपि नास्ति, गत्वादिजातीनामनुपपत्तेः, भेदाभेदप्रत्ययप्रतिष्ठो हि व्यक्तिजातिप्रविभागव्यवहारः, इह चायमभेदप्र. त्ययो वर्णक्यनिबन्धन एव न जातिकृतः, भेदप्रतिभासस्य व्यञ्जकभेदधीसुस्पष्टसिद्धत्वेन व्यजकाद्युपाधिनिबन्धनत्वोपपत्तेः परस्परविभक्तस्वरूपतया हि शाबलेयबाहुलेयपिण्डाः प्रत्यक्षमुपलभ्यन्ते, स्थिते च व्यक्तिभेदे सर्वत्र गौरि. ति तदभेदप्रत्ययस्यानन्यविषयत्वादिष्यते एव गोत्वजातिः, इह पुनः
गकारव्यक्तयो भिन्नाः शाबलेयादिपिण्डवत् । क नाम भवता दृष्टा येनासां जातिमिच्छसि ।। शिशौ पठति वृद्ध वा स्त्रीजने वा शुके ऽपि वा।
वक्तृभेदं प्रपद्यन्ते न वर्णव्यक्तिभिन्नताम् ।। तथा च गर्गः पठति माठरः पठतीत्युच्चारयितृभेद एव प्रतीयते अमुंगविशेषमेष पठतीति नोच्चार्यमाणभेदः।
एकक प्रयोगे ऽपि तस्यैवोच्चारणं पुनः । गङ्गागगनगर्गादौ न रूपान्तरदर्शनम् ॥ द्रुतादिभेदबोधोपि नादमेदनिबन्धनः ।
न व्यक्तिभेदजनितः शाबलेयादिभेदवत् ॥ अभ्युपगते ऽपि गत्वसामान्ये तस्य दूतादिभेदप्रतिभासे सत्यपि न भिन्न. त्वमेषितव्यम् औपाधिक एव तस्मिन् भेदप्रतिभासो वर्णनीयः, सो ऽयं गकार. व्यक्तावेव कथं न वर्ण्यते, तस्या एवैकत्वादेकप्रत्ययो भेदभ्रमस्तु व्यजकाधीन