________________
१९२
न्यायमञ्जर्याम्
इति, एवं हि कल्पना लघीयसी भवति, तस्मान्न नानागकारवृत्ति गत्वसामान्यं नाम किं चिदस्ति ।
अपि च गोगुरुगेहादौ भिन्नाजुपश्लेषकारित एव व्यञ्जनेषु बुद्धिभेदः परोपाधिरवधार्यते सो ऽयमक्ष्वपि परोपाधिरेव भवितुमर्हति, वर्णाश्रितत्वाकभेदप्रत्ययवदिति, तस्माद्गत्ववदत्व सामान्यमपि नास्ति, यत्पुनरष्टादशभेदमवर्णकुलमुच्यते तदौपाधिकमेव ह्रस्वदीर्घप्लुतसंवृतविवृतादिबुद्धीनां ध्वनिभेदानुविधायित्वात् ।
विवृतः संवृतादन्यो न गकाराद्वकारवत् ।
अपि त्वक एवासौ प्रतिभाति यथा तथा ॥
कथं तर्हि शब्दभेदाभावे भिन्ने अर्थप्रतिपत्ती अरण्यमारण्यमिति ध्वनि कृते एव ते भविष्यतः, अशब्दधर्मस्य दीर्घत्वादेः कथमर्थप्रतीत्यङ्गत्वमिति चेत् तुरगवेगवद्भविष्यति ।
यथा तुरगदेहस्थ वेगः पुंसो ऽर्थसिद्धये । परधर्मो sपि दीर्घादिरेवं तस्योपकारकः ||
इतश्चैतदकारसामान्यमनुपपन्नम्, अत्वं हि न दीर्घप्लुतयोरनुगतं भवति त्वं न ह्रस्वदीर्घयोरिति, तम्मादेकत्वाद्वर्णानां नावान्तरजातयः सम्भवन्ति शब्दत्वं तु नियतार्थप्रतिपत्तौ व्यभिचारीत्यतो नात्र धूमादिन्यायः । तेनार्थप्रत्ययः शब्दादन्यथा नोपपद्यते । न चेद् नित्यत्वमित्यस्मिन्नर्थापत्तेः प्रमाणता ॥ 'अनुमानादन्यथात्वमर्थापत्तेर्न दृश्यते । तेनानुमानमप्येतत्प्रयोक्तुं न न शक्यते ॥
"
तदिदमुच्यते शब्दो धर्मी नित्य इति साध्यो धर्मः सम्बन्धग्रहणसापेक्षार्थ - प्रतिपादकत्वाद् धूमादिजातिवत् तदिदमुक्तं "नित्यत्वं तु स्याद्दर्शनस्य परार्थत्वादिति” (१), एवं सम्बन्ध ग्रहणात्प्रभृत्यार्थप्रतिपत्तेरवस्थितस्य विनाशहेत्वभा वादात्मादिवन्नित्यत्वम्, न ह्ययमवयवविनाशान्नश्यति शब्दो निरवयवत्वात्, तदेव कथमिति चेद् उच्यते
स्वल्पेनापि प्रयत्नेन यदि वर्णः प्रयुज्यते । यदि वा नानुभूयेत शकलो नानुभूयते ॥
( १ ) जैमिनिसू० अ० १ पा० १ सू० १८ नित्यस्तु स्यादिति पाठः । तुशब्दोऽवधारणे शब्दः नित्य एव स्यात् दर्शनस्य दृश्यते श्रूयतेऽनेनेति दर्शनमुच्चारणं तस्य परार्थत्वात् परं प्रति अर्थप्रत्यायनार्थत्वात् शब्दस्य अनित्यत्वे च अर्थप्रतीतिपर्यन्तमनवस्थानात परस्यार्थप्रतीतिरेव न स्यादिति तदर्थः इति मत्प्रणीतायां जैमिनिसूत्रौ
प्रभायाम् ।