________________
प्रमाणप्रकरणम्
१९३
सावयवे हि वस्तुनि द्विधा ऽवयवा दृश्यन्ते श्रारब्धकार्याश्वानारब्धकार्याश्वेति, इह पुनरारब्धकार्या अनारब्धकार्या वा पटे तन्त्वादय इव वणे न केचि. दवयवा उपलभ्यन्ते न चानुमीयन्ते लिङ्गाभावात् , नाप्याश्रयविनाशाद्विनाशः शब्दस्यात्मादिवदनाश्रितत्वात् , आकाशाश्रितत्वपक्षे वा तन्निस्यत्वात्, न चान्य:
तस्मात्तिरोहितो ऽप्यास्ते यदि शब्दः क्षणान्तरम् ।
मृत्योर्दुःखादपक्रान्तः पुनः केनैष हन्यते ॥ अतश्च नित्यः शब्दः संख्याभावाद् , अष्टकृत्वो गोशब्दः प्रयुक्त इति वद. न्ति न त्वष्टौ गोशब्दा इति तेनैकत्वमवगम्यते, यो ऽयं क्रियाभ्यावृत्तिगणने विहितः कृत्वसुचप्रत्ययः स क्रियावतामभेदे भवति तेनोच्चारणावृत्तिमात्र,
क्रियावतामभेदे हि क्रियावृत्तिषु कृत्वसुच् ।
तत्प्रयोगाद् ध्रुवं तस्य शब्दस्यावर्त्तते क्रियेति(१) ॥ संख्यावताम् ।
संख्याभिधायिनः शब्दात्कृत्वसुच्प्रत्ययं विदुः। तदनेन प्रकारेण प्रत्यभिज्ञानमुच्यते ॥ प्रमाणं शब्दनित्यत्वे सकलश्रोतृसाक्षिकम् । तथा ह्यस्ति स एवायं गोशब्द इति वेदनम् ।।
श्रोत्रं करणकालुष्यबाधसन्देहवर्जितम् ॥ श्रोत्रेन्द्रियव्यापारान्वयव्यतिरेकानुविधानाच्छौत्रमिदं विज्ञानम्, न चैत. जनकस्य करणस्य किमपि दौर्बल्यमुपलभ्यते, न च किं स्विदिति कोटिद्वयसंस्पर्शितयेदं विज्ञानमुपजायते नच नैतदेवमिति प्रत्ययान्तरमस्मिन्बाधकमु. त्पश्यामः, इदानींतनास्तित्वप्रमेयाधिक्यग्रहणाच्चेदमनधिगतार्थग्राह्यपि भवि. तुमर्हति, भवन्मते च गृहीतग्राहित्वे ऽपि प्रत्यभिज्ञायाः प्रामाण्यमिष्यते न हि तदप्रामाण्यं वक्तुं शक्यते शाक्यैरिव भवद्भिः क्षणिकपदार्थानभ्युपगमात् ।
न सादृश्यनिमित्तत्वं वक्तुं तस्याश्च युज्यते । सामान्यविषयत्वं वा द्वयस्थापि निषेधनात् ॥ कैश्चित्तिरोहिते भावादित्यप्रामाण्यमुच्यते । तदसत्तत्प्रतीत्यैव तिरोधाननिषेधनात् ॥
. (१) श्लोकवार्तिके शब्दाधिकरणे श्लोक ३६२ । "अष्टकृत्वो गोपाब्द उपरितः इति हि वदन्ति नाष्टौ गोशब्दाम इति शावरमाध्यस्याभिणयमाह-क्रियावतामिति । क्रियावसामभेदे क्रियाभ्यावृत्तिगणने कृत्वाच् विहितः तेन शब्दस्य उचारणक्रिया मा. वर्तते न शब्द इत्यर्थः।
२५ न्या०