________________
१९४
न्यायममर्याम्
जीवति त्वन्मते ऽप्येष शब्दस्त्रिचतुरान् क्षणान् । प्रत्यभिज्ञा च कालेन तावता न न सिद्धयति ॥ एकक्षणायुषि त्वस्मिन्प्रतीतिरतिदुर्लभा ।
न खल्वजनकं किं चिद्वस्तु ज्ञानेन गृह्यते इति ॥ क्षणभङ्गभङ्ग वक्ष्यते, अपि च
यथा निशीथे रोलम्बश्यामलाम्बुदडम्बरे । प्रत्यभिज्ञायते किं चिदचिरद्युतिधामभिः ।। तथा ऽविरतसंयोगविभागक्रमजन्मभिः । प्रत्यभिज्ञायते शब्दः क्षणिकैरपि मारुतः॥
शब्दाभिव्यक्तावनुपपत्तिप्रदर्शनम् अत्राह, मारुतैरित्युपोद्घातेन साधु स्मृतम् , तिष्ठतु तावत्प्रत्यभिज्ञानं प्रथममेव शब्दस्य यन्नियतग्रहणं तदभिव्यक्तिपक्षे दुर्घटम् ।
नित्यत्वाद्वयापकत्वाच सर्वे सर्वत्र सर्वदा।
शब्दाः सन्तीति भेदेन ग्रहणे किं नियामकम् ॥ ध्वनयो हि नाम संयोगविभागविशेषिता वायवः वायुवृत्तयो वा संयोगवि. भागास्ते हि शब्दस्य व्यजका इष्यन्ते तैश्च करणं वा संस्क्रियते कर्म वा द्वयं वा सर्वथा च प्रमादः ।
करणे संस्कृते तावत्सर्वशब्दश्रुतिर्भवेत् ।
गकारायैव संस्कार इत्येष नियमः कुतः ॥ अपि च-स्तिमितसमीरणापसरणमेव करणस्य संस्कारः स चायं तद्देशव्यवस्थितसकलतद्विषयसाधारण एव ।
यथा जवनिकापायप्राप्तप्रसरमीक्षणम् । रङ्गभूमिषु तद्देशमशेषं वस्तु पश्यति ।। तथा प्रसरसंरोधिसमीरोत्सारणे सति ।
श्रोत्रं तद्देशनिःशेषशब्दग्राहि भविष्यति ॥ आकाशं च श्रोत्रमाचक्षते भवन्तः तच्च विभु निरवयवं चेति क चिदेव तस्मिन्संस्कृते सति सर्वे च तदेव संस्कृतकरणाः प्राणिनः संपन्ना इति सर्व एव शृणुयुः, विषये तु संस्क्रियमाणे तस्यानवयवस्य व्यापिनश्च संस्कृतत्वात्सर्वत्र श्रवणमिति मद्रेष्वभिव्यक्तो गोशब्दः कश्मीरेष्वपि श्रूयेत, न हि तस्याधारद्वारकः संस्कारः आकाशवदनाश्रितत्वात् , आकाशाश्रितत्वपक्षे ऽपि तदेकत्वाद्, नापि भागशः संस्क्रियते गोशब्दः तस्य निरवयवस्वात् उक्तं हि