________________
प्रमाणप्रकरणम्
अल्पीयसा प्रयत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्ण वा सकलं स्फुटमिति(१)। उभयसंस्कारपक्षे तु दोषद्वयस्याप्यनतिवृत्तिः सर्वेषां ग्रहणं सर्वत्र श्रवण मिति, न च समानदेशानां समानेन्द्रियग्रह्याणां च भावानां प्रतिनियतव्यजकव्यङ्गचस्वमुपलब्धम् ।
गृहे दधिघटीं द्रष्टुमानीतो गृहमेधिना।
अपूपानपि तद्देशान् प्रकाशयति दीपकः ॥ तस्मात्कृतकपक्षे एव नियतदेशं शब्दस्य ग्रहणं परिकल्पते नाभिव्यक्ति. पक्षे इति, अपि च, अभिव्यक्तिपक्षे तीव्रमन्दविभागो ऽभिभवश्च शब्दस्य शब्दान्तरेण न प्राप्नोति, न हि शब्दस्तीत्रो मन्दा वा कश्चित स्वतस्तस्य भेदा. भावात् , संस्कारस्य च तदभिव्यक्तिहे तोर्न का चन तीव्रता मन्दता वा यदनुसारेण विषये तथा बुद्धिः स्यात् , पवनधर्मा वा तीव्रादिभवन्कथं श्रोत्रेण गृह्येत, सावयवे हि वस्तुनि सकलविशेषग्रहणाग्रहणसंभवात्तदपेक्षया प्रतीतिभेदो भवेत्, इह तु निरवयवे शब्दे न तथोपपद्यते इति, तस्मात्कृतकपक्ष एव श्रेयानिति ।
शब्दाभिव्यक्तिपक्षानुपपत्तिपरिहरणम् अत्रोच्यते, करणसंस्कारपक्ष एव तावदस्तु, तच्च करणं किं चिदेव मरुद्विरुपाहितसंस्कारं कं चिदेव शब्दं गृह्णाति ।
यथा ताल्वादिसंयोगविभागाः के चिदेव नः । कस्य चिद्महणे शक्तं श्रोत्र कुर्वन्ति संस्कृतम् ॥ यथा च तेषामुत्पत्तौ सामर्थ्यनियमस्तव ।
तथैवैषामभिव्यक्ती सामर्थ्यानेयमो मम ।। व्यब्जकानां नियमो न दृष्ट इति चेत् क एवमाह सहस्राक्षः, तथा हि पृथिव्यामेव वर्तमानो गन्धः समानदेशो भवति समानेन्द्रियग्राह्यश्च प्राणकविषयत्वात् तस्य च नियमतस्तद्यखकव्यङ्गयता दृश्यते एव ।
क चित्पावकसम्पर्कादकौशुस्पर्शतः क चित् ।
क चित्सजिलसंसेकाद्गन्धो ऽभिव्यज्यते भुवः ॥ न च स्तिमितिपवनापनोदनमात्रं करणस्य संस्कार इष्यते यः सर्वसाधारणः स्यात् , किं त्वन्य एव नियतः प्रतिविषयं योग्यतालक्षणः ।
(१) लोकवातिके स्फोटग्रन्थे श्लोक १० । अयमाशय:-'ते च श्रोत्रग्रहणाः' इति भाष्ये गकारादीनामेव श्रौत्रत्ववचनात्तदवयवानां तत्समुदायस्य च श्रौत्रत्वं नि. राकृतं साकल्यवैकल्यग्रहणेहि स्यादवयवसिद्धिः न तु तदस्ति मतिः प्रत्यक्ष सकलं विकलं वा न गृहाति इति।