________________
न्यायमअर्याम् यत्पुनरभ्यधायि नभसि श्रोत्रे ऽभ्युपगम्यमाने सर्वप्राणिनामेकमेव श्रोत्रं भवेद् इति तदप्यसाधु धर्माधर्मयोनियामकत्वात् , आकाशस्यापि घटाकाशवदन्यावच्छेदोपपत्तेः धर्माधर्मनिबन्धन एव बधिरेतरविभागः, अपि च भवतामे. वैष दोषो येषामाकाशमेव श्रोत्रमित्यभ्युपगमनियमः मीमांसकानां तु नावश्यमा काशमेव श्रात्रं कार्यार्थापत्तिकल्पितं तु किमपि करणमात्रं प्रतिपुरुषनियतं श्रोत्रमिति नातिप्रसङ्गः, तथा च भर्तृमित्रः पवनजनितसंस्कारपक्षो भवतु तथा ऽपि नातिप्रसङ्गः नियतदेशस्यैव तत्र संस्कारात् , न चास्य भागशः संस्कारो निरवयत्वात् , तथा ऽपि जातिवदस्य ग्रहणनियमो भविष्यति तथा च भव. तामेव पक्षे
यथा सर्वगता जातिः पिण्डदेशव गृह्यते । न च कात्स्न्यगृहीता ऽपि पिण्डे ऽन्यत्र न दृश्यते । तथा सर्वगतः शब्दा नादशेषेषु(१) गृह्यते । कात्स्न्ये न च गृहीतो ऽपि पुनरन्यत्र गृह्यते ।। पिण्डो ऽभिव्यञ्जको जाते: शब्दस्य व्यञ्जको ध्वनिः ।
आश्रितानाश्रितत्वादिविशेषः कोपयुज्यते । सर्वगतत्वनिरवयवत्वाविशेषात् तीव्रमन्दत्वादयश्च ध्वनिधर्मा अपि भव. न्तः शब्दवृत्तितया ऽवभान्ति, यथा स्थूलत्वकृशत्वादयः पिण्डधर्मा अपि जातिवृत्तित्वेन क चिद् गृह्यन्ते अगृहीतशाबलेयादिविशेषस्य कृशा गाव इत्यादिप्र. तिभासदर्शनात् ।
यद्वा न तीव्रमन्दादेर्वर्णधर्मतया ग्रहः । बुद्धिरेव तथोदेति व्यन्जकाऽनुविधायिनी ।। तावन्त एव ते वणोः प्रचयापचयस्पृशः। एवं चाभिभवो ऽप्येषां स्वतो नास्ति परस्परम् ॥ मरुद्भिरभिभूयन्ते मारुता एव दुर्बलाः ।
तेजोभिरिव दीप्तांशार्दिवा दीपप्रभादयः । द्वयसंस्कारपक्षो ऽप्येवं समाहितो भवति उभयेषामपि दोषाणामुस्सारणात, तस्मात्प्रत्यभिज्ञाप्रत्ययप्रभावसिद्धनित्यत्वस्य शब्दस्याभिव्यक्तिरेव साधीयसी। कार्यशब्दपक्षापेक्षयाभिव्यङ्ग्यशब्दपक्षे लाघवप्रदर्शनम्
इदं चालोच्यतामार्याः कार्यामिव्यङ्गयपक्षयोः । शब्दस्य ग्रहणे गुर्वी लघ्वी वा कुत्र कल्पना ॥
(१) नाददेशेष्विति युक्तः पाठः ।