SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् १९७ तथा हि भवन्तो वैशेषिकाः सांख्या जैनाः सौगताश्च कार्यशब्दवादिनः, चार्वाकास्तु वराकाः कस्यैवं विधासु गीष्ठीषु स्मृतिपथमुपयान्ति, तत्रभवतां वैशेषिकाणां शब्दस्य श्रवणे तावदेषा तुल्यैव कल्पना, संयोगा. द्विभागाद्वा शब्दउपजायते जातश्चासौ तिर्यगूर्वमधश्च सर्वतोदिक्कानि कदम्बगो. ढकाकारेण सजातीयनिकटदेशानि शब्दान्तराण्यारभते तान्यपि तथेत्येवं वी. चीसन्तानवृत्त्यारम्भप्रबन्धप्राप्तो ऽन्त्यः श्रोत्राकाशजन्मा शब्दस्तत्समवेतस्तेनैव गृह्यते इति तदियं तावदतिघर्घरा कल्पना । शब्दः शब्दान्तरं सूते इति तावदलौकिकम् । कार्यकारणभावो हि न दृष्टस्तेषु बुद्धिवत् ॥ जन्यन्ते ऽनन्तरे देशे शब्दैः स्वसहशाश्च ते । तिर्यगूर्ध्वमधश्चेति केयं वा श्रद्दधानता। शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते । न हि वेगक्षयस्तेषां मरुतामिव कल्पते ॥ कुड्यादिव्यवधाने च शब्दस्यावरणं कथम् । व्योम्नः सर्वगतत्वाद्धि कुडयमध्ये व्यवस्थितिः । अथावरणात्मककुड्यादिद्रव्यसंयोगरहितमाकाशं शब्दजन्मनि समवायि. कारणमिष्यते तत्र प्रमाणं विशेषे वक्तव्यम् । तुल्यारम्भे च मन्देन तीवस्य जननं कथम् । श्रूयते चान्तिकात्तीव्रःशब्दो मन्दस्तु दूरतः ॥ वीचीसन्तानतुल्यत्वमपि शब्दे सुदुर्वचम् । मूतिमत्त्वक्रियायोगवेगादिरहितात्मसु॥ यदप्युच्यते सजातीयजनकः शब्दः गुणत्वाद्र्पादिवदिति तदिदमसिद्धम्सिद्धेन साध्यं गुणत्वस्यासिद्धत्वात् । न शब्दः पारतन्त्र्येण कदा चिदुपलभ्यते । द्रव्यस्थ इव रूपादिरतो ऽस्य गुणता कुतः ।। अपि च-न शब्दान्तरारम्भकः शब्दो गुणत्वाद् रूपवत् , शब्दः शब्दं नारभते शब्दत्वाच्छोत्रशब्दवत् , न संयोगविभागो शब्दस्य जनको संयोग विभागत्वादन्यसंयोगविभावगवद् इत्यादयः प्रतिहेतवो ऽप्यत्र सुलभा इति यत् किं चिदेतत् । कापिलास्तु ब्रवते श्रोत्रवृत्तिः शब्ददेशं गच्छति सा शब्देन विक्रियते इति तत्र श्रोत्रस्य व्यामिश्रत्वान्निकटदेशेनैव शब्देन तवृत्तिर्विक्रियते न दूरदेशेनेत्यत्र को नियमः, नियमाभावाच कान्यकुब्जप्रयुक्तो गोशब्दो गौरमूलके ऽपि
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy