________________
न्यायमञ्जर्याम् श्रूयेत, अमूर्ती च श्रोत्रवृत्तिः प्रसरन्ती न मूत्तैः कुड्यादिभिरभिहन्तुं शक्यते इति व्यवहितस्यापि शब्दस्य श्रवणं स्यात् ।
वायौ शब्दानुकूले च न तस्य श्रवणं भवेत् ।
गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तेः स मारुतः ।। दूरे ऽपि शब्दस्य श्रवणं यदृष्टं प्रतिवातं च निकटे ऽपि यदश्रवणं तद. स्मिन् पक्षे विपरीतं स्यात् ।।
वृत्तिवृत्तिमता दो नास्तीतीन्द्रियवद्भवेत् ।
व्यापिका वृत्तिरित्येवं कथं सर्वत्र न श्रुतिः ॥ आईतास्त्वाहुः सूक्ष्मैः शब्दपुद्गलैरारब्धशरीरः शब्दः स्वप्रभवभूमेः निष्कम्य प्रतिपुरुषं कर्णमूलमुपसर्पतीति तदेतदतिसुभाषितम् ।
वर्णस्यावयवाः सूक्ष्माः सन्ति के चन पुद्गलाः । तैर्वर्णो ऽवयवी नाम जन्यते पश्य कौतुकम् ।। तेषामहश्यमानानां कीदृशा रचनाक्रमः । केन तत्संनिवेशेन कः शब्द उपजायताम् ।। लघवो ऽवयवाश्चैते निबद्धा न च केन चित् । न चैनं कठिनं कर्तुं वर्णावयविनं क्षमाः॥ कृशश्च गच्छन्स कथं न विक्षिप्येत मारुतैः । दलशो वा न भज्येत वृक्षाघभिहतः कथम् ॥ प्रयाणकावधिः कश्च गच्छतो ऽस्य तपस्विनः । एकत्रप्रविष्टो वा स येतापरैः कथम् ॥ निष्क्रम्य कणोदेकस्मात्प्रवेशः श्रवणान्तरे । यदीष्येत कथं तस्य युगपद्बहुभिः श्रुतिः ।। श्रोतृसंख्यानुसारेण न नानावर्णसंभवः । वक्तस्तुल्यप्रयत्नत्वाच्छोतृभेदे तदत्यये ॥ तदलं परिहासस्य महतो हेतुभूतया ।
ननक्षपणकाचार्यप्रज्ञाचातुर्यचर्चया ॥ शाक्यप्रायास्त्वाचक्षते अप्राप्त एव शब्दः श्रोत्रशक्तचा गृह्यते इति तदेतदतिव्यामुढभाषितम , अप्राप्त्या तुल्यतायां दूरव्यवहितादीनामश्रवणकारणाभा. वात् , प्राप्यकारिताख्यकर्मधर्माप्रसङ्गा, न च चार्वाकवदपरीक्षित एवायमर्थ उपेचितुं युक्तः ।
इति कार्यत्वपक्षे ऽमूः श्रुतास्तार्किककल्पनाः ।
अथाभिव्यक्तिपक्षे ऽस्य शृणु श्रोत्तियकल्पनाम् ।। विवद्यापूर्वकप्रयत्नप्रेर्यमाणस्तावद्वेगवत्तया क्रियावत्तया च कोष्टचो बहि