________________
प्रमाणप्रकरणम्
निस्सरति समीरण इति सुस्पष्टमेतत् , प्रत्यक्षपवनवादिनां पक्षे पवनसमये वक्तवदननिकदनिहितहस्तस्पर्शेनैव स उपलभ्यते, अनुमेयमारुतपक्षे ऽपि सदानीमास्यसमीपसन्निधापिततूलककर्मणा सोऽनुमीयते ।
स गच्छन्सर्वतोदिककः स्तिमितानिलनोदनम् । करोति कर्णाकाशे च प्रयाति अतियोग्यताम् ॥ स च प्रयत्नतीव्रत्वमन्दत्वेन तदात्मकः । शब्दे तथाविधज्ञप्तिहेतुतामवलम्बते । स चैष गच्छन्नद्दामवेगयोगाहितक्रियः। शरवद्वेगशान्त्यैव न दूरं गन्तुमर्हति ।। स मूर्तः प्रसरन्मूतैरपरैः प्रतिरुभ्यते । कुडयादिभिरितो नास्य श्रुतिय॑वहितात्मनः ।। स वेगगतियोगित्वादागच्छति यतो यतः । श्रोता ततस्ततः शब्दमायान्तमभिमन्यते ॥ स तु शङ्खादिसंयोगप्रेर्यमाणः समीरणः । शब्दस्यावर्णरूपस्य भवति व्यक्तिकारणम् ॥ यद्वा यद्यपि वोल्मा श्रोत्रप्रायो न विद्यते ।
तथा ऽपि तत्र शब्दत्वं श्रवणेन प्रहीष्यते॥ तदिह न का चिदस्माभिरधिका कल्पना कृता मारुतगतेरस्याः सर्वलोकप्रसिद्धत्वात्कर्णाकाशसंस्कारमात्रमदृष्टं कल्पितं तदपि कार्यार्थापत्तिगम्यत्वान्नापू. वमिति ।
अपक्षपातिनः सभ्याः सत्यमुत्पत्त्यपेक्षया ।
शब्दस्य कल्पनामाहुरभिव्यक्ती लघीयसीम् ।। तदेवमभिव्यक्तिपक्षे नियतग्रहणेापपत्तेः प्रत्यभिज्ञाप्रत्ययप्रामाण्यान्नित्यत्व. मेवोपगन्तव्यम् ।
या त्वनैकान्तिकत्वोक्तिः धीकर्मप्रत्यभिज्ञया । प्रत्यक्षे चोद्यमाना ऽसौ दर्शयत्यति मूढताम् ॥ तेनानुमानदोषेण प्रत्यक्षं न हि दूष्यते । सिद्धान्तान्तरचिन्ता तु भवेभृशमसंगता॥ निर्बाधं प्रत्यभिज्ञानमस्ति चेबुद्धिकर्मणः । तयोरप्यस्तु नित्यत्वं नो चेत्का शब्दतुल्यता॥
शब्दनित्यत्वोयसंहार तस्मान्नित्यः प्रत्यभिज्ञाप्रभावात्सिद्धः शब्दः पश्यतां तार्किकाणाम् । अर्थापत्तिः पूर्वमुक्ता च तस्मिन्नस्थायित्वे युक्तयश्च व्युदस्ताः ।।