________________
न्यायमञ्जर्याम्
अस्ति च वेदे वचनं सिद्धामनुवदति यद् ध्रुवां वाचम् ।
तल्लिङ्गदर्शनादपि नित्यः शब्दो ऽभिमन्तव्यः ।। शिक्षाविदस्तु पवनात्मकमेव शब्दमाचक्षते तदसमजसमप्रतीतेः । अर्हन्मतप्रथितपुद्गलपर्युदासनीत्या च वाय्वयवा अपि वारणीयाः ।।
ये ऽपि स्थूलविनाशदर्शनवशाद् युः क्षणध्वंसिनो भावाँस्ते ऽपि न शक्नुवन्ति गदितुं शब्दस्य विध्वंसिताम् । अन्ते हि क्षयदर्शनात् किल तथा तेषां भ्रमो ऽस्मिन्पुनः शब्देनान्तपरिक्षयाविति कथं कुम्भादिवद्भङ्गिता ।।
शब्दनित्यत्वखण्डनोपक्रमः । अत्र ब्रमहे-न खलु भवदभिहितमेतत्प्रमाणद्वयमपि शब्दनित्यतां प्रसाध. यितुमर्हति, यावता यदर्थापत्तिरवादि दर्शनस्य परार्थत्वादिति सा क्षीणैवार्थप्र.. तीतेरन्यथा ऽप्युपपन्नत्वात् , तत्र सादृश्यमप्यनभ्युपगतमेव दूषितमित्यस्थाने क्लिष्टा भवन्तः ।
गत्वादिजातीराश्रित्य सम्बन्धग्रहणादिकः । अर्थावगतिपर्यन्तो व्यवहारः प्रसेत्स्यति ।। ननु गत्वं प्रतिक्षिप्तमेतदेव परीक्ष्यताम् । अस्मिन्समाप्यते वादो मर्मस्थानमिदं च नः ।। प्रतिक्षिप्ते च गत्वादो नार्थसम्प्रत्ययो ऽन्यथा। प्रत्यभिज्ञानभूमिश्च नान्या ऽस्तीति वयं जिताः ॥ सिद्धे तु गत्वसामान्ये तत एवार्थवेदनम् । तदेव प्रत्यभिज्ञयमिति यूयं पराजिताः ॥ तेनान्यत्सर्वमुत्सृज्य वादस्थानकडम्बरम् ।
गत्वादिजातिसिद्धयर्थमथातः प्रयतामहे ।। प्रत्यभिज्ञोपपादकगत्वादिजातिसमर्थनाय वर्णभेदोपपादनम् ।
तत्रेदं विचार्यताम्-य एव गकारभेदप्रतिभासः स किं व्यज्जकभेदकृत उत वर्णभेदविषय इति, व्यन्जकभेदकृते तस्मिन्नेकत्वाद्गकारस्य किंवृत्ति गत्वसामान्यं स्यात् , वणभेदविषयत्वे तु तद्भेदसिद्धेरभेदप्रत्ययस्य विषयो मृग्य इति तद्ग्राह्यमपरिहार्य गत्वसामान्यम् , तदुच्यते नायं व्यज्जकभेदकृतः गकारभेदप्रत्ययः यदि हि व्यन्जकभेदाधीन एष भेदप्रतिभासस्तहि यरलवा. दिवर्णभेदप्रत्ययो ऽपि तत्कृत एव किमिति न भवति , ततश्च सकलवर्णविकल्मा. तीतमेकमनवयवं शब्दतत्त्वं वैयाकरणवदभ्युपगन्तव्यम् ।