SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् २०१ अथ मनुषे यरलवादीनामितरेतरविभक्तस्वरूपप्रतिभासात् शुकसारिकाम. नुष्येषु हि वक्तभेदे सति व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रत्ययस्य वत्कृतत्वं काममाशङ्कयतापि वक्त्रेकत्वे तु गगनादौ कुतस्तत्कृतो भेदः । ननु तत्रापि मरुतो भिन्ना एव व्यन्जकाः मुखं त्वेकं भवतु किं तेन तदपि वा भिन्नमित्येके, उच्यते स तर्हि मरुतां भेदो यरलवादिष्वपि तुल्य इति मा भूत्तेषामपि भेदः। ननु यरलवानां विशेषप्रतीतिरस्ति गकारे तु सा नास्तीत्युक्तं उच्चारणस्यैव तत्र भेदो नोचार्यस्येति, नैतत्सारम् , मा भूदेष विशेष इति प्रतीतिभेंदबुद्धिस्तु विद्यते एव, अन्या च विशेषबुद्धिरुच्यते अन्या च भेदबुद्धिरिति, विशेषाप्रति. भासे ऽपि क्वचिद्विच्छेदप्रतीतिदर्शनात् । नन्वत्रोच्यते दृश्यते शाबलेयादिव्यक्तयन्तरविलक्षणा । बाहुलेयादिगोव्यक्तिस्तेन भेदो ऽस्ति वास्तवः ।। न तु दुतादिभेदेन निष्पन्ना सम्प्रतीयते । गव्यक्तयन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ।। इति नैतद्युक्तम , शाबले यादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववत्तिनो विशेषाः प्रतिभासन्ते ते च स्थूलत्वात्सुगमा भवन्ति, यत्र तु तिलतण्डुलकुलत्थादौ प्रतिसिक्थं विशेषा न प्रतिभासन्ते तत्र विशेषप्रतीत्यभावे ऽपि विच्छेदप्रतिभासो विद्यते एव सिक्थात सिक्थान्तरत्वेन प्रतिभासात् , एवमिहाप्येष गकारविशेष इति प्रतिभासाभावे ऽपि विच्छेदग्रहणाद् गकारनानात्वम् , . ननु तण्डुलादावपि सिक्थात्सिक्थान्तरे विशेषाः प्रतिभासन्ते एव तद. प्रतिभासे भेदस्यापि ग्रहोतुमशक्यत्वात् , मैवं वादी:-यत्ने सति चतुरश्रत्रिको णवतलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते, प्रयत्नं विना ऽपि तु प्रथमाक्षनिपात एव विच्छेदबुद्धिरुत्पद्यते इति तयैव नानात्वसिद्धिः। ननु नैवानधिगतविशेषस्य विच्छेदबुद्धिरुत्पत्तमर्हति इति विशेषबुद्धिरेव विच्छेदबुद्धिः, नैतदेवम, भ्रमणादिकर्मक्षणानां सूक्ष्मविशेषाप्रतिभासे ऽपि विच्छेदप्रतिभासात, ननु तत्रापि विशेषग्रहणं कल्प्यते अन्यथा विच्छेदप्रतीत्यनुपपत्तेः, यद्येवं वणष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात्कल्प्यतां विशेष. प्रहणम् , नन्वस्त्येव तत् किं त्वौपाधिकः स्फटिके रक्तताप्रत्ययवत् , विष. मो दृष्टान्तः स्फटिकस्य शुद्धस्य दृष्टत्वालाक्षाद्यपाधिनिमित्तको रक्तताप्रत्ययः वर्णानां तु नित्यमेवादात्तादिविशेषवतां प्रतिभासात्तद्रहितानामनुपलब्धेश्च नैसगिक एवायं भेदः, तद्यथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात्प्रति. विषयं नानात्वं तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम् , न च बुद्धिरेकैव २६ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy