________________
न्यायमअर्याम् नित्या च विषयभेदोपाधिनिबन्धनस्तद्भद इति साम्प्रतम् , स्वयमेव बुद्धिजन्म प्रत्यक्षमित्यभिधानात , अस्माभिश्च बुद्धिनित्यताया उपरिष्टानिराकरिष्यमाए. त्वात् , विषयभेदाश्च तद्भेदाभिधाने विषयस्यापि कुत इदानी भेदः, बुद्धिमेदादिति चेद् इतरेतराश्रयप्रसङ्गः, तदिमाः स्वत एव भेदवत्यो बुद्धयः विषयाणामपि स्व. त इव भेदो भवति स च बुद्धिभिर्ज्ञायते इत्यलमर्थान्तरगमनेन, यथा च शुक्ल. गुणस्य भास्वरधूसरादिभेदवतो नानात्वं तथा वर्णस्याप्युदात्तादिभेदवतः, शुक्ल गुणो ऽप्येक एव आभयभेदात्तु तद्भेद इति चेद् अहो रससमारूढो भट्टः ।
कमकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
तैश्च तन्नित्यमित्येताः स्त्रीगृहे कामुकोक्तयः॥ अपि चैकात्मवादो ऽप्येवमेवावतरेत्सुखिदुःख्यादिभेदस्य शरीरभेदेनाप्युप पत्तेः, अद्वैतस्य च नातिदवीयानेष पन्था इत्यलमलीकविकत्थनेन, तस्माद् बु
ध्यादिवत्सर्वदा सविशेषाणामेव वर्णानां ग्रहणान्नानात्वम्, तत्रैतत्स्याद् गगना. दावकारोपश्लेषकृत एव भेदप्रत्ययो न स्वरूपभेद इति, तदयुक्तम् , अकारस्यापि भवन्मते भेदाभावात् , अविद्यमाने च तदुपश्लेषे दिगो दिग्गज इति भे. देन प्रतिभासो भवत्येव, तथा च समदः सम्मदः पटः पट्टः श्रासनम् आसन्नं मलः मल्लः अविकः अविक्कः पतिः पत्तिः पतनं पत्तनमित्यादावपि वर्णभेदप्रती. तिः, अर्थप्रतीतिभेदो ऽपि च दिगजदिग्गजादौ शब्दान्तरनिमित्तको भवि. तुमर्हति न द्विरुच्चारणकृतः, ग्रन्थाधिक्यादर्थाधिक्यं नोच्चारणभेदात , शतकृत्वो ऽपि प्रयुक्ते गोशब्दे सास्नादिमदर्थव्यतिरिक्तवाच्यसंप्रत्ययाभावात् , तथा च दिग्गज इति द्विगकारको निर्देश इत्याचक्षते शब्दविदोन द्विर्गकार उच्चारित इति। __ननु गोगुरुगिरिगेहादावज्भेदे ऽपि गकारप्रत्ययानुवृत्तेरेक एवायं गकारः, मैवं वाचः, एष एव हि भेदप्रत्ययो ऽस्माभिरुपदार्शितः, विना ऽपि च अजुप श्लेषं दिग्गजादो भेदप्रत्ययो वर्णितः, न च वयमभेदप्रत्ययमपहनुमहे किं तु भे. दप्रत्ययस्याप्यबाधितस्य भावादनन्यथासिद्धत्वाञ्च गवादिवत्सामान्यविशेषरूपता ब्रूमः, व्यजकभेदनिबन्धनत्वं तु यरलवादावपि वक्तुं शक्यमित्युक्तमेव ।
अपि च शाबलेयादिभेदप्रत्ययस्यापि व्यजकभेदनिबन्धनत्वादेक एवासौ स्यात् । ननु तत्र को व्यजको यन्दकृतः पिण्डभेदप्रत्यय इष्यते, आह च
न पिण्डव्यतिरेकेण व्यञ्जको ऽत्र ध्वनिर्यथा । पिण्डव्यङ्गचैव गोत्वादिजातिनित्यं प्रतीयते(१) इति ।
(१) श्लोकवार्तिके स्फोटग्रन्थे श्लो० ३६ । अत्र शब्दे यथा शब्दव्यतिरेकेण व्यञ्जको ध्वनिवर्तते इति तदभेदकृत एव शब्दभेदव्यवहारस्तथा गवादौ पिण्डव्यतिरे.