________________
प्रमाणमकरणम्
२०३
तदयुक्तम्, गोत्वजातेर्गश्ववदिदानीं विवादास्पदीभूतत्वात् पिण्डभेदप्रत्य यस्य चक्षुर्व्यापारभेदादप्युपपत्तेः ।
ननु सकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति, मैं - वम्, तदानीं गोमात्रप्रतीतिरेष शाबलेय एष बाहुलेय इति तु विशेषग्रहणे चक्षुर्व्यापारभेदे ऽपरिहार्यः, यदि चाद्यगोपिण्डभेदे प्रथमाक्षरसन्निपातजा बुद्धिः सुभतां गतागारभेदे तर्हि किंकृतमस्या दौर्भाग्यम्, तत्रापि प्रथम श्रोत्र व्यापारवेलायामनवगतव्यञ्जकविभागस्यापि गगनगङ्गादौ गकारभेदः प्रतिभासते एवेत्यप्रसङ्गेन ।
गत्वादिजातिसमर्थनम् —
तदयं वस्तुसंक्षेपः, उपेक्ष्यतां वा सर्वत्र सामान्यविशेषव्यवहारः, इष्यतां वा गोत्वादिवद्गारभेदवृत्ति गत्वसामान्यम् ।
त्वमपि गत्ववदप्रत्याख्येयम् इतरेतरविलक्षणानामकाराणां ह्रस्वदीर्घप्लुतादिभेदेन प्रतिभासात्, यः पुनरकारेऽप्यकारप्रत्यभिज्ञानं ब्रूयात्तस्येका! - कारप्रतीतिष्वप्यकारस्यैव ग्रहणप्रसक्तिरच्त्वाविशेषात्, अथ तदविशेषे ऽपि वर्णादिवर्णस्य भेद् इष्यते स तकारस्य न निह्नोतव्यः, एवं च सत्यरण्याररायशब्दाभ्यां भिन्नार्थप्रतीतिरुपपत्स्यते, उदात्तानुदात्तस्वरितसंवृतविवृतादिभेदा Sपि शब्दविदां प्रत्यक्ष एव गीतज्ञानामिव स्वरग्रामभाषाविभागः, तस्मादष्टादशभेदमकारमाचक्षते, अत्वं च तत्सामान्यमवर्णकुलशब्देन व्यवहरन्तीति प्रतिपद्यन्ते लेाका न मरुदुद्भ्यः, अथ मरुतामपि तथा व्युत्पत्तेरर्थप्रतीतिहेतुत्वं तर्हि व्युत्पत्तिरेव प्रमाणं स्याद् न शब्दः व्युत्पत्तेरव्यभिचारात् शब्दस्य च व्यभिचारादित्यास्तामेतत् ।
तस्माद्गत्वादिसामान्यैरर्थसंप्रत्ययात्मनः ।
कार्यस्य परिनिष्पत्तेर्भ वर्णव्यक्तिनित्यता ॥
अपर ह, तिष्ठतु तावद् दूरत एव गत्वाद्यपर सामान्यं महासामान्यमपि शब्दत्वं वर्णेषु नापपद्यते ।
व्यक्त्यन्तरानुसंधानं यत्रैकव्यक्तिदर्शने । तत्रैकरूपसामान्यमिष्यते तत्कृतं च तत् ।। गकारश्रुतिवेलायां न वकारावमर्शनम् । बाहुले परामर्शः शाबलेयग्रहे यथा ॥
केण व्यञ्जका नास्ति इति किं भेदकृतः पिण्डभेदव्यवहारः स्यात् तथा च प्रत्यभि. ज्ञावात शालेयादिषु गोत्वादिसामान्यमभ्युपगन्तव्यं गत्वादिसामान्ये तु मानाभाव इत्यर्थः ।