________________
२०४
न्यायमञ्जर्याम्
- शब्दः शब्दो ऽयमित्येवं प्रतीतिस्त्वप्रयोजिका ।
एषा हि श्रोत्रगम्यत्वमुपाधिमनुरुध्यते ॥ तदेतन्निरनुसंधानस्याभिधानम, अनुसन्धानप्रत्ययस्य सामान्यसिद्धावप्रयोजकत्वात् , अनुसंधानं हि सारूप्याद्विजातीयेष्वपि भवति गवयग्रहणसमये गो. पिण्डानुसंधानवत् , तस्मादबाधितकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः ।
समानबुद्धिग्राह्ये ऽपि सामान्ये ऽवस्थिते व चित् । भवत्यन्यानुसंधानं क चिद्वा न भवत्यपि ।। तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम् ।
गकारादिषु वर्णेषु तदभावात्तु नास्ति तत् ॥ न तु सामान्याभावात् , न च सारूप्यमेव सामान्यं सावयवदभिधातुं युक्तं विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात् , यदि च शब्दः शब्द इत्यनुवृत्तबुद्धेः श्रोत्रगम्यत्वोपाधिकृतत्वमुच्यते तर्हि गवादावप्येकबुद्धर्वाहदोहाघेकार्थक्रियाकारित्वनिबन्धनत्वाद् गोत्वादिजातिनिहवो बौद्धवन्मन्तव्यः, न चैतदेवम् , तद्गो. त्ववच्छब्दत्वमपि न प्रत्याख्येयम् ।
एतेन ब्राह्मणत्वादिसामान्यमपि समर्थितं वेदितव्यम् उपदेशसहायप्रत्यक्ष गम्यत्वात् , न चोपदेशापेक्षणादप्रत्यक्षत्वं तस्य भवितुमर्हति गोत्वादिप्रत्ययस्यापि सम्बन्धग्रहणकाले तदपेक्षत्वदर्शनात्, उक्तं च न हि यगिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति, न चौपाधिक: पैठीनसिपैप्पलादिप्रभृतिषु ब्राह्मणप्रत्ययः उपाधेरग्रहणात् , औपाधिकत्वस्य गोत्वादावपि वक्तं शक्यत्वात् । ___ अपि चोपदेशनिरपेक्षमपि चक्षुः क्षत्रियादिविलक्षणां सौम्याकृति ब्राह्मण. जातिमवगच्छति इत्येके । तदलमनया कथया।
शब्दनित्यत्वसमर्थकयुक्तीनां परिहरणम्प्रकृतमुच्यते,गत्वादिमिर्जातिमिरेवार्थसंप्रत्ययोपपत्तर्यदुक्तं नित्यस्तु दर्शनस्य परार्थत्वात्' इति एतदयुक्तम् , एतेन 'सर्वत्र योगपद्यात्'(१) इत्येतदपि प्रत्युक्तम्, सम्बन्धनियमस्य गत्वादिभ्य एव सिद्धः, यदपि संख्याभावात्कृत्वसुचप्रयोगदर्शनमुदग्राहि तदपि व्यभिचारि ।
कृतं कान्तस्य तन्वङ्ग्या त्रिरपाङ्गविलोकनम् ।
चतुरालिङ्गनं गाढमष्टकृत्वश्च चुम्बनमिति ।। (१) जै. अ० १ मा १ सू० १९ । अयमर्थः गो शब्दे उचरिते सर्वगोव्य. कीना बोधस्य योगपद्यादाकृतिवचनत्वं शब्दस्य, न चाकृत्याऽनित्याग्दस्य शक्तिग्रह इति शब्दस्य नित्यत्वमास्थेयम् । इति विस्तरस्तु मदचितजैमिनिसूत्रप्रभायाम् ।